कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सङ्गत

saṅgataवि · adj.

In 7 kośas: 7 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.18
अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम् ॥ १८ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.706 · p. 81
सख्यं साप्तपदीनं सौहार्दं सौहृदं तथा स्नेहः ।मैत्री प्रीतिरजर्यं सभाजनं सङ्गतं प्रोक्तम् ॥ ७०६ ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.80 · p. 447
मिथ्याभियोगोऽभ्याख्यानं ग्राम्यमश्लीलमित्यपि ।उच्चैर्घुष्टं घोषणा स्त्री सङ्गतं हृदयङ्गमम् ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.389 · p. 50
स्याद्धृदयंगमं चैव सङ्गतं परुषं वचः ।विक्रुष्टं निष्ठुरं रुक्षमुच्चैर्घुंष्टं तु घोषणा ॥ ३८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1194 · p. 187
सौहार्दं सौहृदं सख्यमजर्यं सङ्गतं तथा ।मैत्री साप्तपदीनं च मित्रता नाम कथ्यते ॥ ११९४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.387 · p. 28
सङ्गतं तद्भवेद्वाक्यं यदेव हृदयङ्गमम् ॥
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.1 · p. 86
विधिविधानं कर्मास्त्री क्रिया कृत्या विधा कृतिः ।व्याप्यं तु साधनं कर्म्मयुताज्ञेय्ये तु सङ्गतम् ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 धि (wrong syllable)
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1924 · p. 215
पञ्चरात्रं पयःपाने सङ्ग(म?त)स्तु पुमानयम् ।दिवसस्य विभक्तस्य चतु(र्थां ? र्धां)शे द्वितीयके ॥ १९२४ ॥
metre not recognisednearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1925 · p. 215
पञ्चरात्रपयःपानव्रतेऽथ मिलिते त्रिषु ।सङ्करोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते ॥ १९२५ ॥
अनुष्टुप्
doubtful

सङ्गत as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप संहतसमूढः पूजिते भुग्ने सद्योजातेऽप्युपप्लुते । संहतं दृढसन्धौ च सङ्गते स्थायुकः पुनः ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 3.4.62
  • नानार्थार्णवसंक्षेप कलिलकलिलं तु नपि ज्ञेयं समूहे कायपापयोः । गाम्भीर्ये सङ्गतेऽप्यात्माधिष्ठिते शुक्रशोणिते ॥ ३३२ ॥ Nānārthārṇavasaṃkṣepa 4.332
  • शब्दरत्नावली सम्यक्शङ्कोचिः मीनभेदे स्याद्वल्के क्लीबञ्च कुङ्कुमे । सम्यग्मनोज्ञे शुद्धे तु सङ्गते चाप्यलिङ्गकम् ॥ Śabdaratnāvalī 7.6.17
  • शब्दरत्नावली गुप्तगुप्तन्तु रक्षिते गूढे सङ्गतेऽप्यभिधेयतत् । घातः प्रहारे कान्ते स्यात्तालावस्थान इत्यपि । घृतं नीले क्लीबमाद्ये दीप्तिसेचनयोस्त्रिषु ॥ Śabdaratnāvalī 7.16.12
  • शब्दरत्नावली भिन्नपानं पीतौ भोजने च रक्षणे च नपुंसकम् । भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥ भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु । मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥ Śabdaratnāvalī 7.20.14
  • शब्दरत्नावली मैथुनमार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
  • शब्दरत्नावली सम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50