कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ग्रस्त

grastaवि · adj.

In 14 kośas: 17 synonym verses, 5 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.266 · p. 15
लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.34
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.194
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ॥ ११० ॥अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ।
metre not recognised
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.142 · p. 17
तूर्णोदितं निरस्तं स्याद् ग्रस्तं लुप्तपदं स्मृतम् ।अम्बूकृतं सनिष्ठीवं ग्राम्यमश्लीलमुच्यते ॥ १४२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.181 · p. 234
स्तुतं स्यादीडितं गीर्णं वर्णितं चाप्यभिष्टुतम् ।भक्षितं चर्वितं भुक्तमाशितं ग्रस्तखादिते ॥ १८१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.76 · p. 447
लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् ।अम्बूकृतं सनिष्ठीवं निरस्तं त्वरितोदिदम् ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.52 · p. 71
विक्रुष्टं किल निष्ठुरं च परुषं रूक्षं तथाश्लीलकंग्राम्यं ग्रस्तमिदं विलुप्तपदकं म्लिष्टं पुनश्चास्फुटम् ।क्षिप्रोक्तं तु निरस्तमाहतमिदं मिथ्यार्थकं स्यादथा-वध्य(द्यं?)व्यर्थ[46a]मबद्धकं तु विफलं चोच्चावचं तद्भवेत् ॥ ५२ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.61 · p. 28
अभ्यवहृतान्न-जग्ध-ग्रस्त ग्लस्ताशितं भुक्तम् ।उदितमुदीतं तुल्यं द्युतितं द्योतितमप्यभिन्नार्थम् ॥ ६१ ॥
उद्गीतिःmetre not read in every line
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.183 · p. 27
सान्त्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् ।अनक्षरमवाच्यं स्याद् ग्रस्तं लुप्ताक्षरं पदम् ॥ १८३ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.28 · p. 5
ग्राम्यं तु निष्ठुरे क्लिष्टं परस्परपराहते ।लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.721 · p. 121
प्रणुतं प्रणितं(?) चापि स्यात्पनायितमप्यथ ।भुक्ते तु प्रत्यवसितं ग्रस्तं ग्लस्तं च खादितम् ॥ ७२१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.385 · p. 49
अस्पष्टं स्यात् तथा म्लिष्टं लुप्तवर्णपदं पुनः ।ग्रस्तं ध्वस्तमवाच्यं तु प्रोक्तमनक्षरं बुधैः ॥ ३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.394 · p. 28
यत्र वाक्ये भवेदेवं ग्रस्तं तत् परिकीर्तितम् ।तन्निरस्तं समाख्यातं भयादौ त्वरितोदितम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.87 · p. 169
गग्धोऽन्नः प्रत्यवसितो भुक्तोऽभ्यवहृतोऽपि च ।भवेद्ग्रस्तोऽशितो ग्लस्तस्तथाजक्षित इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.935 · p. 117
ग्रस्तं सत्यमृतं तथ्यमसत्यं वितथानृते ।अलीकं सान्त्वमुख्यानि पदानि त्रिषु तद्वति ॥ ९३५ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1643 · p. 197
पिपासितस्तु तृषितः पिपासुस्तर्षितः सतृट् ।भुक्तजग्धाशितग्रस्तग्लस्ताभ्यवहृताहृतम् ॥ १६४३ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.108 · p. 210
ग्रस्तग्लस्ताभ्यवहृतभुक्तभक्षितजक्षिताः ।परिक्षिप्तं तु निवृतं निदिग्धोपचितौ समौ ॥ १०८ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.4 · p. 67
वीतस्त्वसारहस्त्यश्वं शान्तं चाङ्कुशकर्म च ।ग्रस्तं ग्रासीकृतं ज्ञेयं ग्रस्तं लुप्तपदं वचः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.26 · p. 208
ग्रासीकृते ग्रस्तमुशन्ति भेद्येतल्लुप्तवर्णे वचनेऽन्तिमे स्यात् ।पुस्तोऽस्त्रियां पुस्तकलेप्यकर्म-विज्ञानकेषु प्रथितः प्रवीणैः ॥ [288a] २८ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.4.7 · p. 40
कुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः ।लुप्तवर्णपदे वाक्ये गन्तुस्तु पथिकेऽतिथौ ॥ ७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.9 · p. 214
कुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके ।कृतं स्यादलमर्थे च विहिते युगभेदके ॥हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते ।स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् ।केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे ।ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 4 प्त (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.156 · p. 145
गर्जितं स्तनिते नेभे ग्रस्तं वाग्भेदभुक्तयोः ।चर्मण्वत्यौ नदीरम्भे जातं व्यक्तौघजन्मसु ॥ १५६ ॥
अनुष्टुप्

ग्रस्त as a meaning in nānārtha verses

  • धरणिकोश अभिपन्नअभिपन्नोऽपराद्धोऽभिद्रुतो ग्रस्तो विपद्गतः । प्रतिपन्नश्च विज्ञाते स्वीकृते च प्रकीर्तितः ॥ Dharaṇikośa 19.2.64
  • शब्दरत्नावली अभिपन्नअनूचानः साङ्गवेदविदुषि स्याद्विनीतके । अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते निपद्गते ॥ अवदानं खण्डनाभिवृत्तकर्मावदातृषु । अभिमानी ज्ञानहिंसाप्रणयार्थादिदर्पके ॥ अनीकिनी च सेनानां सेनाभेदेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.20.102
  • वैजयन्ती अभिपन्नअभिपन्ना विपन्नाप्तग्रस्तात्तद्रुतदक्षिणाः । अधिक्षिप्तं प्रणिहिते प्रेषिते भर्त्सितेऽपि च ॥ २ ॥ Vaijayantī 8.4.2