कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विचिकित्सा

vicikitsāस्त्री · fem.

In 12 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.15 · p. 52
संदेहद्वापरारेका विचिकित्सा तु संशयः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.3
अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः ।सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.691 · p. 80
शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.95 · p. 74
प्रतिभा प्रतिभासः स्यात् निर्णयोऽन्तश्च निश्चयः ।विचिकित्सा तु सन्देहः संशयो विशयो भ्रमः ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.149 · p. 433
स्यात्स्त्रियां विचिकित्साऽपि सन्देहद्वापरौ समौ ।राद्धसिद्धकृतेभ्योऽन्तः समौ निश्चयनिर्णयौ ॥ १४९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.7 · p. 53
विचिकित्सा द्वापरोऽस्त्री रेक-संदेह-संशयाः ।विकल्पो विशयः शङ्का वितर्क्को युतकं नयुक् ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.569 · p. 75
विचिकित्सा समासादि पूर्ववत् स्त्री विचक्षणा ।कृष्णशिम्बौ पण्डिते तु त्रिर्ना तु न विदारणा ॥ ५६९ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.150 · p. 21
संदेहे विचिकित्सा स्यात्संशयद्वापरौ तथा ।संख्या चर्चा विचारे स्याद्व्यापादो द्रोहचिन्तनम् ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2499 · p. 405
सन्देहः संशयश्चैत्र विचिकित्सा च द्वापरम् ।आरेकश्चेति नामानि मन्यन्ते संशयस्य वै ॥ २४९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.322 · p. 22
सन्देहो विचिकित्सा तु संशयो द्वापरोऽपि च ।स्यान्निर्नये निर्नयणं निश्चयो निचयोऽपि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.271 · p. 37
विचिकित्सा तु संशीतिर्विशयः संशयः समौ ।संदेहद्वापरौ चाथ सर्गो निर्णयनिश्चयौ ॥ २७१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.177 · p. 97
विचिकित्सा तु सन्देहः संशयो विशयो भ्रमः ।विस्मरणं प्रस्मरणमुन्मादश्चित्तविभ्रमः ॥ १७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 स्म (wrong syllable)
genderस्त्रीfem.