All kośas › Bālaprabodhikā
बालप्रबोधिका Bālaprabodhikā
357 verses · 2,901 words tagged · 725 marked doubtful (dashed)
षष्ठोपदेशः
इति नत्कीरकविविरचितायां बालप्रबोधिकायां पञ्चमोपदेशः ।
बुद्धिर्मनीषा धिषणा चेतना शेमुषी मतिः ।विदा बुधा धीख्याती च ज्ञप्तिसंवित्तिरित्यपि ॥ ८७ ॥
6.87 · p. 74
अनुष्टुप्
अनुभूरुपलब्धिश्च भूतिश्चित् ज्ञप्तिसम्भवा ।ज्ञानं च बोधनं जानं मेधा धीर्धारणा क्षमा ॥ ८८ ॥
6.88 · p. 74
अनुष्टुप्
मतिस्तु तत्वधीः पण्डा गृहीत ग्रहणा क्षमा ।ऊहापोहक्षमा चार्वी सावज्ञा तु च चर्वरी ॥ ८९ ॥
6.89 · p. 74
अनुष्टुप्
धृतिस्तुष्टिस्तु सन्तोषः प्रौढिस्तु कटभेदिका ।यत्नोत्साहोद्यमायामास्तरिषोऽध्यवसायवत् ॥ ९० ॥
6.90 · p. 74
अनुष्टुप्
वैराग्य… मर्थमुद्वेगो निर्वेदविरागवत् ।पुण्यं तु सुकृतं धर्मं पापोऽधर्मस्तु दुष्कृतिः ॥ ९१ ॥
6.91 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पातकं दुरितं पापं … किल्बिषे ।अहङ्कारोऽभिमानश्च स्मयो गर्वस्तु विस्मिता ॥ ९२ ॥
6.92 · p. 74
अनुष्टुप्metre not read in every line
उच्चलं मानसं चेतश्चित्रमुच्चलितं मनः ।स्वान्तं प्रबोधवद्धृच्च सङ्कल्पा मानसी क्रिया ॥ ९३ ॥
6.93 · p. 74
अनुष्टुप्
चित्राभोगो मनस्कारे उत्प्रेक्षा स्वमनीषिका ।मीमांसा तु विजिज्ञासा … ॥ ९४ ॥
6.94 · p. 74
अनुष्टुप्metre not read in every line
प्रतिभा प्रतिभासः स्यात् निर्णयोऽन्तश्च निश्चयः ।विचिकित्सा तु सन्देहः संशयो विशयो भ्रमः ॥ ९५ ॥
6.95 · p. 74
अनुष्टुप्
विस्मारणं प्रस्तरणमुन्मादश्चित्तविभ्रमः ।इन्दिकोसिद्यमालस्यं प्रमादोऽनवधानता ॥ ९६ ॥
6.96 · p. 74
अनुष्टुप्
स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ।इच्छा काङ्क्षा स्पृहेहाश्च वाञ्छा कामो मनोरथः ॥ ९७ ॥
6.97 · p. 75
अनुष्टुप्
अभिलाषश्च लिप्सा तु घना सेर्ष्या तु गन्धना ।गर्भिण्याः पुनरिच्छायां श्रद्धा दोहददौहृदम् ॥ ९८ ॥
6.98 · p. 75
अनुष्टुप्
रागोऽनुरागोऽनुरतिः वीक्षाव्यामोहविस्मयौ ।शोषिण्या उषकोदन्या पिपासा पिपलासिका ॥ ९९ ॥
6.99 · p. 75
अनुष्टुप्
बुभुक्षा चाथना क्षुच्च जिघत्साऽऽशिशिषा पचिः ।राजलौल्यं तु काहालं तपसि … ॥ १०० ॥
6.100 · p. 75
अनुष्टुप्metre not read in every line
मन्युश्च शोकः खेदश्च क्रोधः कोपश्च कथ्यते ।वर्षक्षमा तितिक्षा स्यात् असूया दोषदृग्गुणे ॥ १०१ ॥
6.101 · p. 75
अनुष्टुप्
वैरं विरोधो विद्वेषमीर्ष्या मात्सर्यमुन्नतिः ।स्नेहस्तु प्रेमसौहार्दसौहृदेऽप्यभिधीयते ॥ १०२ ॥
6.102 · p. 75
अनुष्टुप्
शम्भुरस्तु मदो हर्षः प्रमोदो मोदसम्मदौ ।आनन्दो नन्दथुर्ह्रादस्तृप्तिर्हृष्टिमुदिष्टयः ॥ १०३ ॥
6.103 · p. 75
अनुष्टुप्
सौख्यं सुखं शर्मशातमयः शुभफलो विधिः ।संपल्लक्ष्मीश्च संपत्तिर्विपत्तिर्विपदापदौ ॥ १०४ ॥
6.104 · p. 75
अनुष्टुप्
अवसादस्तु सादः स्याद्विषादश्च निगद्यते ।उग्रता तूग्रिका रौद्रिः करुणा तु दया कृपा ॥ १०५ ॥
6.105 · p. 75
अनुष्टुप्
घृणाऽनुकम्पानुक्रोशश्च कारुण्यं च प्रगीयते ।मन्दाक्षं ह्रीस्त्रपा लज्जा व्रीडा सापत्रपान्यतः ॥ १०६ ॥
6.106 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हासिक्यं तु हसो हासो हसनं हस्यघर्घरे ।व्याजो मिषं छलं छद्म निभं च कपटं लविः ॥ १०७ ॥
6.107 · p. 75
अनुष्टुप्
लबाडच्छद्मना छद्म दम्भो डम्भं च लक्ष्यवत् ।प्रमीला तामसी तन्द्रा स्वापस्वप्नमनोलयाः ॥ १०८ ॥
6.108 · p. 75
अनुष्टुप्
निद्रा गडाका सुप्तिश्च जाग्रं जागरितं तथा ।जागरूकं जागरणं स्वप्नन्त्वैकान्त्यदर्शनम् ॥ १०९ ॥
6.109 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
निशीथे मालकश्च स्यान्नवकः पूर्वरात्रके ।सद्यः पाको निशान्ते स्यात्सुषुप्तिश्च नदीमुखम् ॥ ११० ॥
6.110 · p. 76
अनुष्टुप्
श्वासहेतुः सुषुप्तिश्च सुखदा सुखसुप्तिका ।मूर्च्छा तु मूर्च्छनं मूढं वैचित्यं कश्मलं लयः ॥ १११ ॥
6.111 · p. 76
अनुष्टुप्
कालधर्मस्तु दिष्टान्तो निपाको गमिरर्थकः ।कटमूषो भूमिलोभो दीर्घनिद्रा निमीलनम् ॥ ११२ ॥
6.112 · p. 76
अनुष्टुप्
पञ्चत्वं मरणं मृत्युर्मृतं चेति निगद्यते ।सर्वलोकगते मृत्यौ मारी स्यान्मालिकापि च ॥ ११३ ॥
6.113 · p. 76
अनुष्टुप्
प्राणापानादयस्त्वस्य मृतयः पञ्चवायवः ।श्वासस्तु श्वसितं सोन्तर्मुख उच्छ्वास आहरः ॥ ११४ ॥
6.114 · p. 76
अनुष्टुप्
अन्तश्चाथ बहिर्वृत्तौ निश्वासः पानशासनः ।स्थिरश्वासोऽप्यधोवायुः श्रद्दुर्वद्यं गुदानिले ॥ ११५ ॥
6.115 · p. 76
अनुष्टुप्
तन्मात्राण्ये विशेषाः स्युर्विशेषाः पञ्चकादयः ।महाभूतानि भूतानि पञ्चधा परिकीर्तिताः ॥ ११६ ॥
6.116 · p. 76
अनुष्टुप्