कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शङ्का

śaṅkāस्त्री · fem.

In 14 kośas: 8 synonym verses, 7 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.245 · p. 17
शङ्कानिष्ठोत्प्रेक्षणं स्याच्चापलं त्वनवस्थितिः ।
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्द्रा (wrong syllable)
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.691 · p. 80
शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.7 · p. 53
विचिकित्सा द्वापरोऽस्त्री रेक-संदेह-संशयाः ।विकल्पो विशयः शङ्का वितर्क्को युतकं नयुक् ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.148 · p. 91
क्लमथस्तु क्लमो ग्लानिः क्लमि(?)र्म्लानिर्बलक्षतिः ।शङ्कानिष्टोन्नयोऽथ स्यान्मदो मुन्मोहसंगमः ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.90 · p. 28
माया तु शठता शाठ्यं वञ्चनं विप्रतारणम् ।शङ्कातङ्कौ दरस्त्रासो भीतिर्भीः साध्वसं भयम् ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.464 · p. 58
अवकुठारिका चैव स्यादऽवकटिका तथा ।अनिष्टोत्प्रेक्षणं शङ्का कथ्यते पण्डितैः सदा ॥ ४६४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.958 · p. 120
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.35 · p. 30
क्रोधीशो वारणश्चण्डः शङ्का तून्मत्तभैरवः ।ज्वालामुखो रक्तदंष्ट्रोऽसिताङ्गो बलयामुखः ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.4 · p. 2
मूकोऽप्यवाङ्मतो दैत्य एके मुख्यान्यकेवलाः ।लङ्का रक्षःपुरी शाखा शङ्का त्रासवितर्कयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.90 · p. 84
आङस्तङ्किर्व्यथाताप-शङ्कासु मुर[ज]ध्वनौ ।जन्म[215b]नि स्याद्रोहतीति प्रादुर्भावेऽपि रोहति ।खच्ञाति जायते हिठ्णात्यपि मूलयते भवेत् ॥ ९० ॥
अनुष्टुप्metre not read in every line
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.18 · p. 137
लङ्का तु रक्षःपुरपत्तनस्त्रीशाखासु शङ्का तु भये वितर्के ।राका तु कच्छ्वां प्रथमार्तवायांनद्यन्तरे पूर्णविधौ तिथौ च ॥ १८ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.104 · p. 18
शङ्का वितर्कभययोः शंसा तूक्तौ स्तुतावपि ।इच्छायां चाजयः प्राह तदसत् स्मर्यते यतः ॥ १०४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.22 · p. 178
शूकोऽस्त्री शृङ्गदययोः शङ्का त्रासवितर्कयोः ।शाको द्वीपान्तरे शक्तौ द्रुमे ना हरितकेऽस्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 189 · p. 541
शङ्का भयवितर्कयोः ॥ १८९ ॥
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.38 · p. 223
शक्तिः कासूर्बलं लक्ष्मीः शरदावृतुवत्सरौ ।शंका वितर्कभययोः श्रद्धास्तिक्याभिलाषयोः ॥ ३८ ॥
अनुष्टुप्
doubtful

शङ्का as a meaning in nānārtha verses