कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भ्रान्ति

bhrāntiस्त्री · fem.

In 15 kośas: 15 synonym verses, 4 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1374 · p. 52
अविद्याहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ १३७४ ॥
metre not recognised
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.192 · p. 57
चक्रावर्तो भ्रमो भ्रान्तिर्भ्रमिर्घूर्णिश्च घूर्णने ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.4
समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.691 · p. 80
शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.151 · p. 433
पूर्वपक्षो भ्रमो मिथ्यामतिर्भ्रान्तिरपि स्त्रियाम् ।मिथ्यादृष्टिस्तु नास्तिक्यं व्यापादो द्रोहचिन्तनम् ॥ १५१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.8 · p. 53
संशयालुः सांशयिकस्तथा संशयितान्यवत् ।विवेचनं विवेकोऽथ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सां (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.157 · p. 92
कालेशयनमाख्यातमासीनप्रचलायितम् ।तन्द्रिर्नन्दीमुखी तन्द्रा श्वासहेतिः प्रमीलिका ॥चक्रावर्तो भ्रमो भ्रान्ति[59b]र्भ्रमिर्घूर्णिश्च घूर्णनम् ।साधिका स्त्री सुषुप्तिः स्यात्सुप्तं स्वप्नेऽपि या मतिः ॥ १५७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.263 · p. 85
अज्ञानं तु भ्रमे भ्रान्तिर्मिथ्यामतिविपर्ययौ ।अतत्त्वे तत्त्वबुद्धिश्च संदेहः संशयः समौ ॥ २६३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.391 · p. 100
भ्रमो भ्रान्तिर्भ्रमिश्चक्रावर्तो घूर्णौ तु घूर्णनम् ।ष्ठेवनं ष्ठीवनं ष्ठ्यूतं थूत्कृतं श्लेष्ममोचने ॥ ३९१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2498 · p. 405
भ्रमो भ्रान्तिस्तथा मिथ्यामतिर्ज्ञानं भ्रमात्मकम् ॥ २४९८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2767 · p. 451
चक्रावर्तो भ्रमो भ्रान्तिर्भ्रमिर्घृणिश्च घूर्णनम् ।एतन्नामानि मन्यन्ते शब्दप्रयोगकारिणः ॥ २७६७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्घृ (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.325 · p. 23
सत्यमुत्तरपक्षोऽपि समाधिर्वाद इत्यपि ।भ्रमो मिथ्यामतिर्भ्रान्तिर्मतिभ्रान्तिमतिर्भ्रमः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.44 · p. 39
नायुग्मन्म(?)स्तथावर्तो भ्रान्तिः स्याद्भ्रमिरित्यपि ॥
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.88 · p. 256
जलतरणेऽपि, परिणामे विकृति-विक्रिये ।विकारः, घूर्णने घूर्णिर्भ्रान्तिर्भ्रमि-भ्रमावपि ॥ ८८ ॥
metre not recognised
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.10 · p. 192
यात्रा व्रज्या च गमनं प्रस्थानं च गतिर्गमः ।चक्रावर्तो भ्रमो भ्रांतिर्भ्रमिर्घूर्णिश्च घूर्णनम् ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.3 · p. 60
अर्तिः पीडाध[नु]ष्कोटयोर्भ्रान्तिर्मिथ्यामतिर्भ्रमिः ।कीर्तिः प्रसादयशसोः कृत्तिश्च चर्म कीर्तिता ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्च (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.79 · p. 53
अवलम्बे समीपत्वे चौर्जित्ये स्तम्भिरीरितः ।घोणते घोणति भ्रान्तौ घूर्णते घूर्णतीति च ॥ ७९ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.66 · p. 214
व्याप्तिस्तथा व्यापनलम्भयोः स्यात्भ्रान्तिस्तु मिथ्याधियि च भ्रमेऽपि ।पक्तिस्तथा गौरवपाकयोः स्या-द्रक्तिस्तु रागेऽपि च गीतिभेदे ॥ ६६ ॥
इन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.31 · p. 216
भर्ता पत्यौ भवेत्पुंसि त्रिषु पोष्टरि धातरि ।भक्तिर्विभागे सेवायां भ्रान्तिर्मिथ्यामतौ गतौ ॥
अनुष्टुप्

भ्रान्ति as a meaning in nānārtha verses