कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वितर्क

vitarkaपुं · masc.

In 14 kośas: 8 synonym verses, 5 as a nānārtha head word, 40 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.253 · p. 17
वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ ३२२ ॥अध्याहारस्तर्क ऊहोऽसूयान्यगुणदूषणम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.691 · p. 80
शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.28 · p. 237
स्याद्वितर्को विकल्पोऽपि ह्यत्याधानमतिक्रमः ।वीप्सा क्रमोऽथ प्लवनं प्लवोऽथाप्यवसन्नता ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.147 · p. 433
मानसं कर्मसकल्पश्चर्चा संख्या विचारणा ।वितर्कोऽपि द्वयोरूहः कल्पोऽध्याहरणं च षण् ॥ १४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.474 · p. 59
आवेगः स्यात् त्वरा तूर्णिः संवेगः सम्भ्रमस्त्वरिः ।अथ तर्कः परामर्शो वितर्कश्च विमर्शनम् ।ऊह उन्नयनं चोहाऽध्याहारश्चापि उच्यते ॥ ४७४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.320 · p. 22
तर्को वितर्को व्यूहः स्यादूह ऊहा वितर्करणम् ।अध्याहारोऽध्याहरणमूहनञ्च प्रतर्कणम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1857 · p. 226
अर्थना तु धनाया स्यादीहनं चेष्टनं समे ।वितर्कस्तु विकल्पः स्यादत्यायानमतिक्रमः ॥ १८५७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.176 · p. 97
संभावना स्यादाशंका वितर्कस्तर्कमस्त्रियाम् ।प्रतिभा प्रतिभासः स्यान्निर्णयोंऽतश्च निश्चयः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.98 · p. 85
मेधायां मेधति प्रोक्तं तथा मेदति मेदते ।ऊहते स्यात्स्यामयते तथा जोषयतीति च ॥ ९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स्या (wrong syllable)
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.99 · p. 85
जोष[216a]ति स्युर्वितर्केऽमी निरस्तृहिर्बहिष्कृतौ ।वितर्के निश्चये वेस्तु मतो रचन-संघयोः ॥ ९९ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.7 · p. 150
[255b]आतङ्को मुरजनिनादतापशङ्का-रुक्ष्वस्त्री रतिपतिकण्टकेऽप्युदर्कः ।संपर्को निधुवनपृक्तिवाचकः स्या-दूहायां पुनरिह संशये वितर्कः ॥ ७ ॥
प्रहर्षिणी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1707 · p. 196
वितर्क आशङ्कायां स्याद् वीततर्के तु भेद्यवत् ।विपिनं क्ली वने हर्षनन्दी तु विवृणोत्यदः ॥ १७०७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.140 · p. 185
बालको वलयेऽस्त्री तु त्रिषु स्यादङ्गुरीयके ।वितर्कः स्यात् पुमानूहे संशये ज्ञानसूचके ॥
अनुष्टुप्

वितर्क as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् स्वित्स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे । Amarakośa 3.3.472
  • नामलिङ्गानुशासनम् हुम्हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ २५३ ॥ Amarakośa 3.3.253
  • हलायुधकोशः (अभिधानरत्नमाला) हुम्पृथग्विनान्तरेणर्ते व्यतिरेकार्थवाचकाः । प्रत्यारम्भे मुहुः प्रोक्तो हुं सम्प्रश्नवितर्कयोः ॥ ८७६ ॥ Abhidhānaratnamālā (Halāyudha) 5.876
  • हलायुधकोशः (अभिधानरत्नमाला) नुआहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः । वर्तमाने च युक्ते च साम्प्रतं सम्प्रचक्षते ॥ ८८० ॥ Abhidhānaratnamālā (Halāyudha) 5.880
  • धरणिकोश शङ्कामूकोऽप्यवाङ्मतो दैत्य एके मुख्यान्यकेवलाः । लङ्का रक्षःपुरी शाखा शङ्का त्रासवितर्कयोः ॥ Dharaṇikośa 1.1.4
  • धरणिकोश किम्मः शिवो मा तु लक्ष्मीः स्यान्मा निषेधेऽव्ययं स्मृतम् । किंशब्द इष्यते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥ Dharaṇikośa 24.2.1
  • धरणिकोश स्वित्स्वित्प्रश्ने च वितर्के स्यादाराद्दूरसमीपयोः । सकृत्सहैकवारे स्यात्साक्षात्प्रत्यक्षतुल्ययोः ॥ Dharaṇikośa 34.7.1
  • धरणिकोश यद्वत्स्वस्त्याशीःक्षेमपुण्यादौ शश्वत्पुनःसदार्थयोः । किमुतातिशये प्रश्ने यद्वत्प्रश्नवितर्कयोः ॥ Dharaṇikośa 34.7.2
  • धरणिकोश उतउत्प्रश्ने च वितर्के स्यादुताप्यर्थविकल्पयोः । पश्चादनन्तरार्थे स्यात्प्रतीच्यां चरमेऽपि च ॥ Dharaṇikośa 34.7.5
  • धरणिकोश नुनु वितर्केऽप्यनुनये प्रश्नातीतार्थयोश्च नु । न निषेधे इवात्यर्थे स्यादतीतेऽनुनयेऽपि च ॥ Dharaṇikośa 34.11.1
  • धरणिकोश हुम्हुं वितर्के परिप्रश्ने किंशब्दः प्रश्नतर्कयोः । कामं प्रकामेऽनुमतौ प्राध्वं नर्मानुकूलयोः ॥ Dharaṇikośa 34.15.2
  • कोषकल्पतरु नुउत्स्यात्प्रकाशप्रबलत्वशक्ति[244b] वियोगसामर्थ्यविलङ्घनेषु । अद्धा स्फुटे स्यान्नियमेऽथ नु स्या- त्प्रश्ने वितर्केऽनुनयेऽप्यतीते ॥ १०० ॥ Koṣakalpataru 5.1.100
  • कोषकल्पतरु किंनुकिंनु वितर्के प्रश्ने नानानेकोभयार्थेऽपि । सादृश्येऽप्यौचित्ये हेत्वर्थे चोदितं स्थाने ॥ २ ॥ Koṣakalpataru 5.1.2
  • कोषकल्पतरु तर्क[247b]कर्कस्तु शुक्लाश्वघटानलेषु राशौ तथा दर्पण ईरितोऽयम् । तर्को वितर्केच्छययोः(?)क्रियाया भेदे च शल्कं शकले च वल्के ॥ ८ ॥ Koṣakalpataru 6.1.8
  • कोषकल्पतरु शङ्कालङ्का तु रक्षःपुरपत्तनस्त्री शाखासु शङ्का तु भये वितर्के । राका तु कच्छ्वां प्रथमार्तवायां नद्यन्तरे पूर्णविधौ तिथौ च ॥ १८ ॥ Koṣakalpataru 6.1.18
  • कोषकल्पतरु प्रेक्षाअचिक्कणेऽथो भृतियाच्ञयोः स्या- द्भिक्षा तथा भिक्षितसेवयोश्च । प्रेक्षा वितर्के धियि संप्रदिष्टा प्लीक्षा( ? )तु रक्षा किल रक्षणेऽपि । कुक्षिर्द्वयोः स्याज्जठराह्वये च गौडादयस्तूदरमात्र आहुः ॥ ५५ ॥ Koṣakalpataru 6.30.55
  • नानार्थार्णवसंक्षेप किम्अथाभिधेयलिङ्गे स्तो द्वे एवैकाक्षरे मते । किं प्रश्नाक्षेपकुत्सानां वितर्कस्य च गोचरे ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.4.1
  • नानार्थार्णवसंक्षेप शङ्काशङ्का वितर्कभययोः शंसा तूक्तौ स्तुतावपि । इच्छायां चाजयः प्राह तदसत् स्मर्यते यतः ॥ १०४ ॥ Nānārthārṇavasaṃkṣepa 2.1.104
  • नानार्थार्णवसंक्षेप तर्करवौ तर्कस्तु काङ्क्षोहवितर्केष्वथ तर्कवाक् । सूत्रवेष्टशलाकायामनलाधारभाजने ॥ ५८ ॥ Nānārthārṇavasaṃkṣepa 2.2.58
  • नानार्थार्णवसंक्षेप सम्प्रेषणासम्प्रेषणा वितर्के तु न ना सम्भावना तथा । उत्पादने च सम्माने पात्रस्यान्तश्च मापने(?) ॥ ६३१ ॥ Nānārthārṇavasaṃkṣepa 6.631
  • परमानन्दीयनाममाला किम्किमाश्चर्ये वितर्के च प्रश्ने क्षेपजुगुप्सयोः । कियत्यथ खमित्युक्तमिन्द्रियाकाशयोनये ? ॥ ११ ॥ Paramānandīyanāmamālā 1.11
  • परमानन्दीयनाममाला हुम्ह संबुद्धौ पादपूर्तौ हा दुःखे शुग्विषादयोः । ही विस्मये विषादे हुं स्वापे प्रश्नवितर्कयोः ॥ ४२ ॥ Paramānandīyanāmamālā 1.42
  • परमानन्दीयनाममाला व्यूहवामो महेश्वरे कामे प्रतिकूले पयोधरे । वाहस्तुरंगमे मेघे व्यूहः सङ्घवितर्कयोः ॥ ३५१ ॥ Paramānandīyanāmamālā 5.24.351
  • शब्दरत्नावली तर्कतर्को वितर्काकाङ्क्षोहहेतुशास्त्रेषु दृश्यते ॥ Śabdaratnāvalī 7.1.10
  • शब्दरत्नावली शङ्काशूकोऽस्त्री शृङ्गदययोः शङ्का त्रासवितर्कयोः । शाको द्वीपान्तरे शक्तौ द्रुमे ना हरितकेऽस्त्रियाम् ॥ Śabdaratnāvalī 7.1.22
  • शब्दरत्नावली किम्कामिः पुंसि कामुके स्यादथ रत्यामपि स्त्रियाम् । किंक्षेपे च वितर्के च वाच्यवत्प्रश्ननिन्दयोः ॥ कृमिः क्रिमिः पुंसि कीटे लाक्षायां कृमिले खरे । किर्मी स्त्री हेमपुत्याञ्च शालापलालयोरपि ॥ Śabdaratnāvalī 7.25.5
  • शब्दरत्नावली उतनिदर्शनसमाप्त्योश्च प्रकारे च प्रकाशने । उत प्रश्ने वितर्के च विकल्पे पादपूरणे ॥ Śabdaratnāvalī 8.1.24
  • शब्दरत्नावली यदुतआराद्दूरे समीपे च तथाभ्यन्तरगाढयोः । स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने ॥ पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते । यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥ Śabdaratnāvalī 8.1.28
  • शब्दरत्नावली किन्नुइनायासपराक्रान्ते किन्नु प्रश्नवितर्कयोः । चन पक्षान्तरे कार्त्स्न्ये विस्मये च निगद्यते ॥ Śabdaratnāvalī 8.1.41
  • शब्दरत्नावली किम्कं पादपूरणे नीरे मस्तके मङ्गले सुखे । किं निषेधे वितर्के च सन्देहे प्रश्नकृत्स्न्योः ॥ Śabdaratnāvalī 8.1.49
  • शब्दरत्नावली हूम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नावली अहोअह कोपे प्रशंसायां नियोगे च विनिग्रहे । अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे । असूयायां वितर्के च खेदाख्याने निगद्यते ॥ Śabdaratnāvalī 8.1.64
  • शब्दरत्नाकर हुंआमन्त्रणे भर्त्सने हुं हुं संप्रश्नवितर्कयोः । ही विषादे विस्मये च हा विषादशुगर्तिषु ॥ २२५७ ॥ Śabdaratnākara 5.1.2257
  • शब्दरत्नाकर उतउपाधिकेऽन्तिके हीनेऽप्युत प्रश्नवितर्कयोः । विस्तारेऽङ्गीकृतावूरी स्यादुरर्यूरीति च ॥ २२६५ ॥ Śabdaratnākara 5.2.2265
  • शब्दार्णव शङ्काशङ्का भयवितर्कयोः ॥ १८९ ॥ Śabdārṇava 189
  • त्रिकाण्डशेष हुम्हुं वितर्के चानुमतौ वार्त्तायामरुचौ किल । प्रातर्दिने च पूर्वत्रेऽत्यर्थे पूर्वेद्युरिष्यते ॥ ४६७ ॥ Trikāṇḍaśeṣa 3.3.467
  • वैजयन्ती तर्कतर्काः कांक्षावितर्कोहास्त्वष्टा तक्ष्णि द्युशिल्पिनि । मणिदोषे भये त्रासस्तिष्यः पुष्ये कलौ युगे ॥ २५ ॥ Vaijayantī 6.1.25
  • वैजयन्ती शङ्काशक्तिः कासूर्बलं लक्ष्मीः शरदावृतुवत्सरौ । शंका वितर्कभययोः श्रद्धास्तिक्याभिलाषयोः ॥ ३८ ॥ Vaijayantī 6.2.38
  • वैजयन्ती किम्सन् सत्येऽभ्यर्हिते श्रेष्ठे साधीयसि भवत्यपि । किं प्रश्नाक्षेपकुत्सानां वितर्कस्य च गोचरे ॥ १६ ॥ Vaijayantī 8.4.16
  • वैजयन्ती हूंहिं स्याद्विशेषणे हेतौ हि हेताववधारणे । आमन्त्रणे भर्त्सने हुं हूं संप्रश्नवितर्कयोः ॥ ९ ॥ Vaijayantī 8.7.9