वृकधूप
vṛkadhūpaपुं · masc.In 10 kośas: 11 synonym verses, 2 as a nānārtha head word, 3 as a meaning of another word.
यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः ॥ १२८ ॥श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ।
अनुष्टुप्
genderपुंmasc.
कपिशः कपिजः कल्को वृकधूपश्चलप्लवः ।भवेत्कृत्रिमधूपश्च याचतः (?) सुरभिस्तथा ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्देवदारुनिर्यासकृतधूमे तु पायसः ।वृकधूपः श्रीनिवासः श्रीवेष्ट्यः(ष्टः?) श्रीकरः करः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
वृकधूपश्च कृत्रिमधूपश्च पिण्डकः पुनः ।विशिष्टं गन्धवस्तुकं प्रसिद्धं कथ्यते बुधैः ॥ १०४९ ॥
metre not recognised
genderपुंmasc.
अथ कृत्रिमधूपस्तु वृकधूप इति द्वयम् ।दशाङ्गप्रमुखे धूपे पर्यायः कथितः बुधैः ॥
अनुष्टुप्
genderपुंmasc.
श्रीपिष्टः वृकधूपः स्यात् श्रीवासः सरलद्रवः ।श्रीवेष्टः पायासो यासो यवासोऽपि घृताह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
कालीयकं कालेयकं कालियं चाग्निवल्लभे ।रालोऽक्ष्यरालः, श्रीवासे धूपः स्याद्वृक-वृक्षतः ॥ २०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ले (wrong syllable)
genderपुंmasc.doubtful
स्याद्यक्षधूपोऽथ वृकधूपः स्यात् पुंसि यावनः ।तुरुष्कः पिण्डकः सिल्हश्चाथ कृत्रिमधूपकः ॥ ११५४ ॥
अनुष्टुप्
genderपुंmasc.
वृकधूपश्च तूणस्तु पिण्डकश्चपलश्चलः ।कप्याख्यः कपिलः सिह्लः कृत्रिमः क्षेत्रिको वरः ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
वृकधूपोंऽगुलालस्तु महिषाक्षः पलंकषः ।चन्दनोऽस्त्री मलयजो भद्रश्री रोहणद्रुमः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
कृत्रिमधूपे सरल-द्रवके वृकधूप आम्नातः ।परिवापो जलनिलयेपर्युप्तौ स्यात्परिच्छदे तद्वत् ॥ १८ ॥
metre not recognised
विश्वेदेवास्तु सूर्येऽग्नौ वृकधूपध्वनिः पुनः ।श्रीपिष्टाह्वयनिर्यासे निर्यासे कृत्रिमाह्वये ॥ ११४ ॥
अनुष्टुप्
वृकधूप as a meaning in nānārtha verses
- कोषकल्पतरु श्रीवासश्रीवास उक्तो वृकधूपविष्ण्वोः सरोरुहेऽन्त्येऽप्यथ साहसं स्यात् । बलात्कृतौ स्यात्कृतकार्यके च दमे शयौ वाहस ईरितोऽत्र ॥ ८९ ॥ Koṣakalpataru 6.31.89
- नानार्थार्णवसंक्षेप कृत्रिमकृन्तत्रो द्वे कृत्रिमस्तु वृकधूपाह्वये पुमान् । तुरुष्काख्ये च निर्यासे लवणे च विडाह्वये ॥ ५६५ ॥ Nānārthārṇavasaṃkṣepa 4.565
- शिवकोष वायसपयः क्षीरे च नीरे च रजो रेणुपरागयोः । वायसो वृकधूपे च पुंसि स्यादगुरुद्रुमे ॥ ५२८ ॥ Śivakoṣa 27.2.528