All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
सान्ताः · सत्रिः
कलसी पृष्टिपर्ण्यां स्याद्दाडिमीलेख्यपत्रयोः ॥ ५२७ ॥
27.2.527 · p. 48
पयः क्षीरे च नीरे च रजो रेणुपरागयोः ।वायसो वृकधूपे च पुंसि स्यादगुरुद्रुमे ॥ ५२८ ॥
27.2.528 · p. 48
अनुष्टुप्
काकोदुम्बरिकायां तु काकमाच्यां तु वायसी ।श्रीवासः सरलास्रावे पङ्कजे चाथ श्रेयसी ॥ ५२९ ॥
27.2.529 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 थ (wrong syllable)
रास्नायां करिपिप्पल्यामभयावचयोरपि ।सुरसस्तु द्वयोरर्जे तुलसीरास्नयोः स्त्रियाम् ॥ ५३० ॥
27.2.530 · p. 48
अनुष्टुप्