कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

तृतीयः काण्डः · मनुष्याध्यायः (2/2)

घनसारसिताभ्रौ तु चन्द्राह्वो हिमवालुका ।कर्पूरोऽस्त्री जातिफलजातिकोशे समे उमे ॥ ११५१ ॥
3.1.1151 · p. 142
अनुष्टुप्
श्रीसंज्ञं देवकुसुमं लवङ्गं च परे समे ।तक्कोलकोशफलके त्रिषु भावितवासिते ॥ ११५२ ॥
3.1.1152 · p. 142
अनुष्टुप्
संस्कारो गन्धमाल्याद्यैः केशादेरधिवासनम् ।बहुरूपः सर्ज्जरसो रालः सर्वरसोऽपि च ॥ ११५३ ॥
3.1.1153 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
स्याद्यक्षधूपोऽथ वृकधूपः स्यात् पुंसि यावनः ।तुरुष्कः पिण्डकः सिल्हश्चाथ कृत्रिमधूपकः ॥ ११५४ ॥
3.1.1154 · p. 142
अनुष्टुप्
श्रीवासः पायसो रक्तशीर्षकः सरलद्रवः ।श्रीवेष्टोऽथ स्थासकस्तु चर्चा चार्चिक्यमित्यपि ॥ ११५५ ॥
3.1.1155 · p. 142
अनुष्टुप्
माल्यदाम्नी तु माला स्रक् केशमध्ये तु गर्भकः ।ललामकं पुरोन्यस्तं प्रालम्बमृजुलम्बि यत् ॥ ११५६ ॥
3.1.1156 · p. 142
अनुष्टुप्
प्रभ्रष्टकं शिखालम्बि तिर्यक् क्षिप्तं तु वक्षसि ।वैकक्ष्यकमथोत्तंसवतंसापीडशेखराः ॥ ११५७ ॥
3.1.1157 · p. 142
अनुष्टुप्
शिखासु कर्णपूरे तु द्वावुत्तंसावतंसकौ ।निर्माल्यं तूज्झितं माल्यमथाभरणमण्डने ॥ ११५८ ॥
3.1.1158 · p. 142
अनुष्टुप्
विभूषणमलंकारः परिष्कारः परिष्क्रिया ।आवेष्ट्यारोप्यविक्षेप्यबन्धनीयैश्चतुर्विधम् ॥ ११५९ ॥
3.1.1159 · p. 142
अनुष्टुप्
कोटीरो ना किरीटोऽस्त्री मौलिर्ना मकुटं न ना ।कर्णिका कुण्डलं तालपत्रं ताटङ्कमस्त्रियाम् ॥ ११६० ॥
3.1.1160 · p. 143
अनुष्टुप्
हारो मुक्तावली मुक्तासारो मौक्तिकदाम च ।गोस्तनस्तु चतुष्षष्टियष्टिः स्याच्छतयष्टिकः ॥ ११६१ ॥
3.1.1161 · p. 143
अनुष्टुप्
देवच्छन्दो माणवको यः स षोडशयष्टिकः ।स्याद्यष्टिभिर्द्वादशभिरर्धमाणवकः स्मृतः ॥ ११६२ ॥
3.1.1162 · p. 143
अनुष्टुप्
एकावल्येकयष्टिः स्याद् द्वात्रिंशदङ्गुलायता ।अथ नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिका ॥ ११६३ ॥
3.1.1163 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
तरलो नायकश्चोभौ हारमध्यस्थिते मणौ ।ग्रैवेयं कण्ठभूषाथ लम्बनं तु ललन्तिका ॥ ११६४ ॥
3.1.1164 · p. 143
अनुष्टुप्
पत(द?)कः पुंस्युरोभूषा वस्त्रबन्धादयो भिदाः ।वालपाश्या पारितथ्या पत्रपाश्या ललाटिका ॥ ११६५ ॥
3.1.1165 · p. 143
अनुष्टुप्
समे त्वङ्गदकेयूरे वलयं कटकोऽस्त्रियाम् ।कङ्कणं करभूषा स्यादङ्गुलीयकमूर्मिका ॥ ११६६ ॥
3.1.1166 · p. 143
अनुष्टुप्
कलापो मेखला काञ्ची रशना सप्तकीति च ।क्लीबे सारसनं क्षुद्रघण्टिका किङ्किणी समे ॥ ११६७ ॥
3.1.1167 · p. 143
अनुष्टुप्
नूपुरोऽस्त्री तुलाकोटिर्मञ्जीरो हंसकः समाः ।आवापकः पारिहार्यमुभयं कटकान्तरे ॥ ११६८ ॥
3.1.1168 · p. 143
अनुष्टुप्