हसित
hasitaवि · adj.In 10 kośas: 15 synonym verses, 2 as a nānārtha head word.
स्थायिसात्त्विकसंचारिप्रभेदैः स्याद्रतिः पुनः ॥ २९५ ॥रागोऽनुरागोऽनुरतिर्हासस्तु हसनं हसः ।घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ ॥वक्रोष्ठिकाथ हसितं किंचिद्दृष्टरदाङ्कुरे ।
अनुष्टुप्
genderक्लीneut.
प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम् ॥ ११२७ ॥उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् ।प्रफुल्लोत्फुल्लसंफुल्लोच्छ्वसितानि विजृम्भितस् ॥ ११२८ ॥स्मेरं विनिद्रमुन्निद्रविमुद्रहसितानि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderविadj.
उन्मीलितमुन्मिषितं स्मितमुन्निद्रं विजृम्भितं हसितम् ।उद्बुद्धं व्याकोशं पुष्पेषु विकाशवाचकाः शब्दाः ॥ १८७ ॥
गीतिः
genderविadj.
बुद्धो भिन्नश्च मिषितः श्वसितो जृम्भवत्यपि ।विकस्वरश्च व्याकोशो विकचो हसितार्थकः ॥ ३५ ॥
अनुष्टुप्
genderविadj.
स्मितं त्वदृष्टदन्तं तत्तत्तु वक्रोष्ठिकं नरि ।दृश्यदन्तं तु हसितं मध्यं विहसितं भवेत् ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।चकितं हसितं केलिरित्यष्टादश शीलजाः ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
हसितं तु[62a] वृथाहासो यौवनोद्भेदसंभवः ।विलासे सह कान्तेन क्रीडायां केलिरुच्यते ॥ १९३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
उल्लीलः स्यादुच्छ्वसित-हसितोन्मिषिता अपि ।मि(मी?)लितः स्यात्संकुचितः फलेग्रह्यादयस्त्रिषु ॥ २१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
genderविadj.
प्रबुद्धं दलितोज्जृम्भे प्रफुल्लोन्मिषिते पुनः ।स्फटं चोच्छ्वासितं स्मेरं विनिद्रहसिते अपि ॥ ४० ॥
अनुष्टुप्
genderविadj.
उज्जृम्भितं चोन्मिषितं हसितं च विजृम्भितम् ।स्फुटं प्रफुल्लमुत्फुल्लं विनिद्रं दलितं तथा ॥ १३८ ॥
अनुष्टुप्
genderविadj.
लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं स्यादपत्रपा ।हासस्तु हासिका हास्यं हसनं हसितं स्मितम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
हसितं कथ्यते प्रायः किञ्चिद्दृष्टरदाङ्कुरे ।तथा विहसितं किञ्चिच्छ्रुते वै कथ्यते बुधैः ॥ ४३५ ॥
अनुष्टुप्
genderक्लीneut.
विकसितं विनिद्रञ्च विमुद्रं विकचं स्मितम् ।उन्निद्रं हसितं स्मेरं व्याकोशं स्फुटितं स्फुटम् ॥ १९८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
genderविadj.
स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजाङ्कुरं हसितम् ।मधुरस्वरं विहसितं सांसशिरःकम्पमुपहसितम् ॥ ९६८ ॥
आर्या
genderक्लीneut.
स्मितं त्वदृष्टदशने हासो वक्रोष्ठिका न ना ।रुचिः स्त्री हसितं दृष्टदन्ते विहसितं श्रुते ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.