स्मित
smitaक्ली · neut.In 14 kośas: 21 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
स्थायिसात्त्विकसंचारिप्रभेदैः स्याद्रतिः पुनः ॥ २९५ ॥रागोऽनुरागोऽनुरतिर्हासस्तु हसनं हसः ।घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ ॥वक्रोष्ठिकाथ हसितं किंचिद्दृष्टरदाङ्कुरे ।
अनुष्टुप्
genderक्लीneut.
प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम् ॥ ११२७ ॥उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् ।प्रफुल्लोत्फुल्लसंफुल्लोच्छ्वसितानि विजृम्भितस् ॥ ११२८ ॥स्मेरं विनिद्रमुन्निद्रविमुद्रहसितानि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderविadj.
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ ।स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
उन्मीलितमुन्मिषितं स्मितमुन्निद्रं विजृम्भितं हसितम् ।उद्बुद्धं व्याकोशं पुष्पेषु विकाशवाचकाः शब्दाः ॥ १८७ ॥
गीतिः
genderविadj.
कटाक्षो दृष्टिविक्षेप ईषच्च हसितं स्मितम् ।ह्रीर्लज्जापत्रपा व्रीडा त्रपा मन्दाक्षमुच्यते ॥ ५६७ ॥
अनुष्टुप्
genderक्लीneut.
स्मितं त्वदृष्टदशने हासो वक्त्रविकासना ।निकुञ्चितशिरोगात्रमट्टहासो महाहसः ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
प्रसवे च सुमं सूनं कुद्मलो मुकुलोऽस्त्रियाम् ।स्फुटः स्मेरो विकसितः स्मितः फुल्लो विजृम्भितः ॥ ३३ ॥
अनुष्टुप्
genderविadj.
हास्यं षणथ तद्भेदास्तत्रादृष्टरदे स्मितम् ।चक्रौष्ठिका तु ना हासः किञ्चिद्दृष्टरदाङ्कुरे ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
स्मितं त्वदृष्टदन्तं तत्तत्तु वक्रोष्ठिकं नरि ।दृश्यदन्तं तु हसितं मध्यं विहसितं भवेत् ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
स्मेरः स्मितो विकसितो दलितः स्फुटितोऽपि च ।विकास्युन्मिषितोन्निद्र-विनिद्राण-विकस्वराः ॥ २० ॥
अनुष्टुप्
genderविadj.
हासस्तु घर्घरो हास्यं हासिका हसनं हसः ।अदृष्टरदहास्यं तु स्मितं वक्रोष्ठिका पुनः ॥ २१५ ॥
अनुष्टुप्
genderक्लीneut.
मरन्दमकरन्दौ तु मधु प्रसवबन्धने ।वृन्तं च विकचं फुल्लं स्मितं व्याकोशमित्यपि ॥ ३९ ॥
अनुष्टुप्
genderविadj.
लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं स्यादपत्रपा ।हासस्तु हासिका हास्यं हसनं हसितं स्मितम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
हसो हासश्च हास्यञ्च हासिका घर्घरस्तथा ।तत्रादृष्टरदे वक्रोष्ठिका स्मितं च कथ्यते ॥ ४३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मि (wrong syllable)
genderक्लीneut.
विकसितं विनिद्रञ्च विमुद्रं विकचं स्मितम् ।उन्निद्रं हसितं स्मेरं व्याकोशं स्फुटितं स्फुटम् ॥ १९८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
genderविadj.
ईषद्धासे स्मितं मध्यहासे विहसितं मतम् ।अथ रोमाञ्चपुलकौ रोमोद्भेदस्त्वगङ्कुरः ॥
अनुष्टुप्
genderक्लीneut.
स्फुटितस्मितविकाशविकस्वरमुखा अपि ।उक्ता विकसिते सद्भिः स्युरवन्ध्यादयस्त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
genderविadj.
स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजाङ्कुरं हसितम् ।मधुरस्वरं विहसितं सांसशिरःकम्पमुपहसितम् ॥ ९६८ ॥
आर्या
genderक्लीneut.
स्मितोन्मुद्रौ किलिञ्जस्तु सूक्ष्मदार्वथ पल्लवः ।किशलं किसलं चाथोत्कलिकाङ्गारिते समे ॥ ४ ॥
अनुष्टुप्
genderविadj.
फुल्ले प्रफुल्लसम्फुल्लव्याकोचविकचस्फुटाः ।उत्फुल्लोन्मिषितोन्निद्रा उद्बुद्धोन्मीलितस्मिताः ॥ ९ ॥
अनुष्टुप्
genderविadj.
स्मितं त्वदृष्टदशने हासो वक्रोष्ठिका न ना ।रुचिः स्त्री हसितं दृष्टदन्ते विहसितं श्रुते ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
स्मितं तु त्रिषु फुल्ले स्यात् स्मितवत्यपि नप् पुनः ।अदृष्टदशने हासे विकासे कुसुमस्य च ॥ १५१४ ॥
अनुष्टुप्
स्मित as a meaning in nānārtha verses
- कोषकल्पतरु हसननितम्बिनीनां कटितः पुरस्ता- द्भागे च कट्यां जघनं प्रदिष्टम् । हासे स्मिते स्याद्धसनं स्त्रियां स्या- दङ्गारधान्यां श्वसनस्तु वायौ ॥ १२ ॥ Koṣakalpataru 6.21.12