कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हास

hāsaपुं · masc.

In 18 kośas: 25 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.73 · p. 6
अन्तराया दानलाभवीर्यभोगोपभोगगाः ।हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ ७२ ॥कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.224 · p. 16
स्थायिसात्त्विकसंचारिप्रभेदैः स्याद्रतिः पुनः ॥ २९५ ॥रागोऽनुरागोऽनुरतिर्हासस्तु हसनं हसः ।घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ ॥वक्रोष्ठिकाथ हसितं किंचिद्दृष्टरदाङ्कुरे ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.26
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.91 · p. 11
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.107 · p. 75
हासिक्यं तु हसो हासो हसनं हस्यघर्घरे ।व्याजो मिषं छलं छद्म निभं च कपटं लविः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.132 · p. 78
स्मितं त्वदृष्टदशने हासो वक्त्रविकासना ।निकुञ्चितशिरोगात्रमट्टहासो महाहसः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
परिहासः परीहासो हासो हास्यं हसोऽपि च ।कौतुकं कुतुकं तुल्ये कौतूहलकुतूहले ॥ २६४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.93 · p. 427
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.94 · p. 427
रागानुरागौ द्वौ तुल्यौ रतिश्चानुरतिः समे ।हसस्तु हासः शूकश्च घर्घरश्च स्त्रियां हसिः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.95 · p. 427
हास्यं षणथ तद्भेदास्तत्रादृष्टरदे स्मितम् ।चक्रौष्ठिका तु ना हासः किञ्चिद्दृष्टरदाङ्कुरे ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.122 · p. 88
विप्रलम्भो विप्रयोगो वियोगो विरहस्तथा ।हासो हसो हासिका स्त्री हसनं हास्यघर्घरे ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.126 · p. 88
हासिका क्रमतो हासः शोक-खेदौ च शोचनम् ।शुक् स्त्रियामथ दैन्यं स्यात्कार्पण्यं दीनता खिदा ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.215 · p. 31
हासस्तु घर्घरो हास्यं हासिका हसनं हसः ।अदृष्टरदहास्यं तु स्मितं वक्रोष्ठिका पुनः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.165 · p. 23
करुणायां तु कारुण्यमनुक्रोशो दयापि च ।स्याद्बीभत्से तु विकृतं हास्ये हासो हसोऽपि च ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.79 · p. 27
लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं स्यादपत्रपा ।हासस्तु हासिका हास्यं हसनं हसितं स्मितम् ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.434 · p. 55
हसो हासश्च हास्यञ्च हासिका घर्घरस्तथा ।तत्रादृष्टरदे वक्रोष्ठिका स्मितं च कथ्यते ॥ ४३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.462 · p. 32
त्रिषु बीभत्सं विकृतं वैकृत्यं वैकृतं तथा ।रौद्रमुग्रमपि ख्यातं हासो हास्यं तथा हसः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.498 · p. 35
सोत्प्रास आच्छुरितकं अवच्छुरितकं तथा ।अट्टहासो महाहासो हासः प्रहास इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.116 · p. 186
घर्घरे हासिका हास्यं हासश्च हसनं हसः ।त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.956 · p. 119
स्थायिभावो विभावाद्यैः स्थायितां प्रापितो रसः ।रतिर्हासक्रोधशोकजुगुप्सोत्साहविस्मयाः ॥ ९५६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.967 · p. 121
दयानुकम्पा करुणा तत्रानुक्रोश इत्यपि ।हासो हसश्च हास्यं च तत्प्रभेदाः स्युरुत्तरे ॥ ९६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1696 · p. 204
उपनायस्तूपनये भरो भारे भ्रमे भ्रमिः ।हसे हासः स्वने स्वानो व्यधो वेधे वरो वृतौ ॥ १६९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 62 · p. 534
तत्र हासो हसो हास्यं घर्घरं हासिका स्त्रियाम् ॥ ६२ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.194 · p. 99
मन्दाक्षं ह्नीस्त्रपा लज्जा व्रीला सापत्रपान्यतः ।हासिका तु हसो हासो हसनं हास्यघर्घरे ॥ १९४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.76 · p. 142
स्थायिभावाः क्रमादेषां रतिर्हासो जुगुप्सनम् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.73 · p. 53
आङ्परश्छुर तिर्हासेऽथ निर्निभ्यां च कृन्ततिः ।अतिच्छेदे पापनाशे खनति त्ववदारणे ॥ ७३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.13 · p. 294
गुरौ तुरगभेदे स्याद्भूधरविहगान्तरे ।हासो रसे च हसने हिंसा तु घातचौर्ययोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ध (wrong syllable); pāda 4, syllable 3 तु (wrong syllable)

हास as a meaning in nānārtha verses

  • धरणिकोश हसनहसनं [57]हासमिच्छन्ति हसन्यंगारधानिका । तपनं तापमादित्यं वदन्ति नरकान्तरम् ॥ Dharaṇikośa 19.2.29
  • कोषकल्पतरु आच्छुरितकआच्छुरितकं तु हासे भवति नखाघातभेदे च । गोजागरिकं मङ्गल- कन्दुकृतोश्चक्षते निपुणाः ॥ ६३ ॥ Koṣakalpataru 6.1.63
  • कोषकल्पतरु हसननितम्बिनीनां कटितः पुरस्ता- द्भागे च कट्यां जघनं प्रदिष्टम् । हासे स्मिते स्याद्धसनं स्त्रियां स्या- दङ्गारधान्यां श्वसनस्तु वायौ ॥ १२ ॥ Koṣakalpataru 6.21.12
  • नानार्थार्णवसंक्षेप हसितगणितज्ञप्रसिद्धे च सङ्ख्यायास्ताडने तथा । भुजे क्लीबं तु हसितं हासे हासान्तरे तथा ॥ २०२६ ॥ Nānārthārṇavasaṃkṣepa 4.2026
  • शब्दरत्नावली हसनहस्तिनी हस्तिकामिन्यां योषिज्जातिभिदि स्त्रियाम् । हसन्यङ्गारधान्यां स्त्री हासे हसनमित्यपि । हायनोऽस्त्री वत्सरे ना वहयर्चिर्व्रीहिभेदयोः ॥ Śabdaratnāvalī 7.20.99
  • वैजयन्ती विहासवेदना दुःखानुभवे ज्ञाने च स्त्रीनपुंसकम् । स्कन्दे विशाख ऋक्षे स्त्री विहासः स्फुटहासयोः ॥ ८३ ॥ Vaijayantī 7.5.83