कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

मङ्गलाचरणम्

अर्हम्

॥ श्री गढसिवानानगरमण्डनश्रीपार्श्वनाथजिनेश्वरेभ्यो नमः ।

॥ शासनसम्राट्-श्रीमद्विजयनेमिसूरीश्वरपरमगुरुभ्यो नमः ।

॥ साहित्यसम्राट्-श्रीमद्विजयलावण्यसूरीश्वरप्रगुरुभ्यो नमः ।

साहित्यरत्न-शास्त्रविशारद-कविभूषण इति पदालङ्कृतेन

श्रीविजयसुशीलसूरिणा विरचिता-

सुशीलनाममाला

मङ्गलाचरणम् ।

[अनुष्टुब्वृत्तम् ]

प्रणम्य श्रीमहावीरं महाधीरं महागिरम् ।वीतरागं च सर्वज्ञं सार्वं विश्वार्चितं विभुम् ॥ १ ॥
1.1 · p. 1
अनुष्टुप्
अनन्तलब्धिसत्सौधं श्रीगौतमेन्द्रभूतिकम् ।गणधरं सुधर्माणं गुणमणिमघौघहम् ॥ २ ॥
1.2 · p. 1
metre not recognised
युगप्रधानकल्पं चाऽऽबाल्यतो ब्रह्मचारिणम् ।श्रीतीर्थोद्धारकं सूरिसम्राजं नेमिसूरिपम् ॥ ३ ॥
1.3 · p. 2
अनुष्टुप्
शब्दानुशासने वाचस्पतिं शास्त्रविशारदम् ।प्रगुरुं कविरत्नं स्वं नत्वा लावण्यसूरिपम् ॥ ४ ॥
1.4 · p. 2
अनुष्टुप्
कविदिवाकरं शास्त्रविशारदं सहोदरम् ।शब्दानुशासने रत्नं सद्गुरुं दक्षसूरिपम् ॥ ५ ॥
1.5 · p. 2
अनुष्टुप्metre not read in every line
आर्हतीं भारतीं भव्यां स्मृत्वा श्रीश्रुतदेवताम् ।विज्ञप्त्या स्वविनेयस्य देवभद्राभिधस्य वै ॥ ६ ॥
1.6 · p. 2
अनुष्टुप्
सुशीलनाममालेयं सुशीलसूरिणा मुदा ।बालबोधाय दृब्धाऽभिधानचिन्तामणिश्रिता ॥ ७ ॥
1.7 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)