कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

तिर्यग्विभागः · वायुकायनामानि

॥ इति तेजस्कायः समाप्तः ॥

* अथ वायुकायनामानि *

* वायुनामानि *

वायुर्वाहो वहो वातः प्रकम्पनः प्रभञ्जनः ।पवनः पवमानश्च दैत्यदेवः सुरालयः ॥ १९३८ ॥
5.4.1938 · p. 319
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्प (wrong syllable)
जगत्प्राणश्चलः प्राणः पृषदश्वः समीरणः ।समीरः समिरश्चैव मातरिश्वा महाबलः ॥ १९३९ ॥
5.4.1939 · p. 319
अनुष्टुप्
संभृतः सृमरो मर्को मेघारिः मारुतो मरुत् ।उत्तरदिक्पतिः शुचिः पश्चिमदिक्पतिः पुनः ॥ १९४० ॥
5.4.1940 · p. 319
अनुष्टुप्metre not read in every line
अङ्कतिः क्षिपतिश्चापि नित्यगतिः सदागतिः ।शीतलो जलकान्तारः स्पर्शनो जलभूषणः ॥ १९४१ ॥
5.4.1941 · p. 319
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
आशुगः क्षिपणश्चाऽहिकान्तो गन्धवहस्तथा ।गन्धवाहो नभःश्वासो नभस्वान् श्वसनोऽनिलः ॥ १९४२ ॥
5.4.1942 · p. 319
अनुष्टुप्
ध्वजप्रहरणो लोलघण्टो लोलपटः पुनः ।कम्पाकश्चेति नामानि मन्यन्ते पवनस्य वै ॥ १९४३ ॥
5.4.1943 · p. 319
अनुष्टुप्

* झञ्झावातनाम *

झञ्झावातश्च झञ्झाऽपि सवृष्टिवायुरुच्यते ।
5.4.7 · p. 319
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्टि (wrong syllable)

* प्राणवायुनाम *

प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः ॥ १९४४ ॥
5.4.1944 · p. 320
अनुष्टुप्metre not read in every line

* अपानवायुनाम *

वातोऽपानः पुनर्मन्थापृष्ठपृष्ठान्तपार्ष्णिगः ।
5.4.9 · p. 320
अनुष्टुप्

* समानवायुनाम *

समानः पवनः सन्धिह्रन्नाभिषु च वर्तते ॥ १९४५ ॥
5.4.1945 · p. 320
अनुष्टुप्

* उदानवायुनाम *

उदानः पवमानश्च वर्तते हृच्छिरोन्तरे ।
5.4.11 · p. 320
अनुष्टुप्

* व्यानवायूनाम *

सर्वत्वक्षु स्थितो व्यान इत्यङ्गे पञ्च वायवः ॥ १९४६ ॥
5.4.1946 · p. 320
अनुष्टुप्