कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

तिर्यग्विभागः · त्रीन्द्रियजीवनामानि

॥ इति द्वीन्द्रियजीवाः समाप्ताः ॥

* अथ त्रीन्द्रियजीवनामानि *

अथ वै त्रीन्द्रियानाह पीलकः स्यात् पिपीलकः ।हीनाङ्गी पीपिलीका स्यात् ब्राह्मणी स्थूलशीर्षिका ॥ २१७६ ॥
5.7.2176 · p. 357
अनुष्टुप्
घृतेली नाम प्रख्यातं पिङ्गकपिशा तथैव च ।उपजिह्वोपदीका स्यात् वम्री तथोपदेहिका ॥ २१७७ ॥
5.7.2177 · p. 357
metre not recognised
रिक्षा लिक्षा प्रसिद्धाऽस्ति यूका तु षट्पदी पुनः ।ख्यातं नाम महाभीरुः गोपालिकाऽपि नाम वै ॥ २१७८ ॥
5.7.2178 · p. 358
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 4, syllable 3 लि (wrong syllable)
गर्दभी गोमयोत्था स्यात् मत्कुणस्तु प्रसिद्धकः ।उद्दंशः किटिभश्चापि वै कोलकुणस्तथोत्कुणः ॥ २१७९ ॥
5.7.2179 · p. 358
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लकु (syllable split)
अग्निकोऽग्निरजश्चैव वैराटस्तित्तिभः पुनः ।इन्द्रगोपश्च नामानि मन्यन्ते तित्तिभस्य वै ॥ २१८० ॥
5.7.2180 · p. 358
अनुष्टुप्
ख्याता कर्णजलूका च कर्णकीटाऽपि कथ्यते ।तथा कर्णजलौकाः स्यात् शतपदी च मन्यते ॥ २१८१ ॥
5.7.2181 · p. 358
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
पुनः कर्णजलौकाऽपि कथ्यते कौविदैः किल ।एते त्रीन्द्रियजीवास्तु वर्तन्ते हि महीतले ॥ २१८२ ॥
5.7.2182 · p. 358
अनुष्टुप्