कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

प्रशस्तिः

[ उपजातिवृत्तम् ]

श्री आदिनाथं जिनशान्तिनाथं श्रीनेमिनाथं प्रभुपार्श्वनाथम् ।देवाधिदेवं विभुवर्द्धमानं स्तुवे सदाऽहं जिनपञ्चकं वै ॥ १ ॥
9.1 · p. 461
उपजातिः

[ अनुष्टुब्वृत्तम् ]

श्रीवीरस्य जिनेन्द्रस्य शासनाधिपतेः प्रभोः ।विजयते सदा विश्वे पट्टं धर्मधुरन्धरम् ॥ २ ॥
9.2 · p. 461
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
तत्र स्वामी सुधर्माख्यो गणीन्द्रः श्रुतकेवली ।निर्ग्रन्थनामकं गच्छमतनोद्भुवि निर्मलम् ॥ ३ ॥
9.3 · p. 461
अनुष्टुप्
कोटिशः सूरिमन्त्रस्य जपात् सुस्थितसूरिभिH ।कोटिगच्छमतिस्वच्छं स्थापितं तन्महीतले ॥ ४ ॥
9.4 · p. 461
अनुष्टुप्Latin letters: H
चन्द्रं चन्द्रोज्ज्वलं भूयः सद्यशोरश्मिशोभितः ।अनुचकार गच्छश्रीचन्द्रसूरीश्वरो महान् ॥ ५ ॥
9.5 · p. 461
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
समन्ताद्वनवासीति सामन्तभद्रसूरिपः ।स्वच्छं गच्छं वितेने सः तदनु भद्रकृद्भुवि ॥ ६ ॥
9.6 · p. 462
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable); pāda 4, syllable 3 नु (wrong syllable)
सर्वदेवाख्यसूरीशः सर्वश्रेयस्करं कलम् ।वटगच्छं पवित्रं च विशालं तदनु व्यधात् ॥ ७ ॥
9.7 · p. 462
अनुष्टुप्
श्रीमेदपाटभूपालमहातपापदैर्भुवि ।श्रीजगच्चन्द्रसूरीशैस्तपागच्छः प्रवर्त्तितः ॥ ८ ॥
9.8 · p. 462
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
परम्परागते स्वच्छे तपागच्छेऽत्र भूतले ।यवनाकबरे लेशप्रतिबोधकराः वराः ॥ ९ ॥
9.9 · p. 462
अनुष्टुप्
धीरवीरत्वहीरत्वगभीरत्वादिभूषिताः ।जगद्गुरुवराः विज्ञाः सञ्जाता हीरसूरयः ॥ १० ॥
9.10 · p. 462
अनुष्टुप्
प्रतापि सेनसूरीशैर्दक्षैः श्रीदेवसूरिभिः ।वादीभैः सिंहकल्पैः श्रीसिंहसूरीश्वरैः क्रमात् ॥ ११ ॥
9.11 · p. 462
अनुष्टुप्
उल्लासिते तपोगच्छे वृद्धिविजयकारकाः ।श्रीवृद्धिविजया जाता वृद्धिचन्द्रादयः परे ॥ १२ ॥
9.12 · p. 462
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्धि (wrong syllable)
तेषाञ्च शान्तमूर्तीनां पादाब्जमधुपोपमाः ।सर्वशासनसम्राजो विभ्राजो ज्ञानरश्मिभिः ॥ १३ ॥
9.13 · p. 462
अनुष्टुप्
सत्तीर्थोद्धारकाः प्रौढा सर्वतन्त्रस्वतन्त्रकाः ।सूरिमन्त्रैकप्रस्थानपञ्चकाराधकाः किल ॥ १४ ॥
9.14 · p. 462
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
सद्ब्रह्मचारिणः श्रीमन्नेमिसूरीश्वरा वराः ।क्षमाधरार्चिता जातास्तत्पट्टाम्बरभास्कराः ॥ १५ ॥
9.15 · p. 462
अनुष्टुप्
सप्तलक्षाधिकश्लोकमितस्य संस्कृतस्य च ।साहित्यस्य सुकर्त्तारः कृतीशा ब्रह्मचारिणः ॥ १६ ॥
9.16 · p. 463
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
शान्ताः साहित्यसम्राजो विभ्राजो ज्ञानज्योतिषा ।ख्याता व्याकरणे वाचस्पतयः कविरत्नकाः ॥ १७ ॥
9.17 · p. 463
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न (wrong syllable)
शास्त्रविशारदा जाता लावण्यसूरिशेखराः ।तेषां पट्टधरा मुख्याः ख्याताः शास्त्रविशारदाः ॥ १८ ॥
9.18 · p. 463
अनुष्टुप्metre not read in every line
कविदिवाकरा दक्षाः सद्व्याकरणरत्नकाः ।दक्षसूरीश्वरा जाताः सरला ब्रह्मचारिणः ॥ १९ ॥
9.19 · p. 463
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 दि (wrong syllable)
तेषां पट्टधरेणाथ सहोदरेण साधुना ।देवगुरुप्रसादात् श्रीसुशीलसूरिणा मया ॥ २० ॥
9.20 · p. 463
metre not recognised
जम्बूद्वीपे प्रसिद्धेऽस्मिन् रम्ये भरतक्षेत्रके ।भरते दक्षिणार्द्धे श्रीमध्यखण्डे विराजिते ॥ २१ ॥
9.21 · p. 463
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
राजस्थाने हि विख्याते मरुधरप्रदेशके ।पालीपुरे हि प्रख्याते वर्षास्थितिं प्रकुर्वता ॥ २२ ॥
9.22 · p. 463
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable); pāda 4, syllable 3 स्थि (wrong syllable)
अश्वनेत्रनभोबाहु [२०२७] मिते वैक्रमवत्सरे ।सुशीलनाममालेयं विज्ञबोधाय संस्कृता ॥ २३ ॥
9.23 · p. 463
अनुष्टुप्
यावन्मेरुस्वयम्भूश्रीसूर्यचन्द्रग्रहाः स्थिताः ।भूयात् तावदियं विश्वे सर्वजनोपकारिका ॥ २४ ॥
9.24 · p. 463
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)