All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
वान्ताः · वत्रिः
कारवी रामचीघोषाजमोदाकृष्णजीरके ।कितवश्चोरके धूर्ते कैरवं कुमुदेऽम्बुजे ॥ ५०४ ॥
24.2.504 · p. 46
अनुष्टुप्
पदवी सहदेवायां नागबलायां च माधवीकुम्भ्याम् ।नेपाल्यामतिमुक्ते वीरायां क्षौद्रशर्करायां च ॥ ५०५ ॥
24.2.505 · p. 46
गीतिः
क्लीबं जरणेऽथाम्रेऽश्वत्थे सिक्थे च किंशुके पुंसि ।शताह्वा मधुसम्भूतशर्कराजातिपोत्रिषु ॥ ५०६ ॥
24.2.506 · p. 46
अनुष्टुप्metre not read in every line
शङ्खाह्वा तु वचाकम्बुमालिन्योर्दध्नि न द्वयोः ।सारिवा गोपकन्यायां सारिवः शालिभिद्यपि ॥ ५०७ ॥
24.2.507 · p. 46
अनुष्टुप्