राधा
rādhāस्त्री · fem.In 13 kośas: 10 synonym verses, 6 as a nānārtha head word.
राधानुराधा तु मैत्त्री ज्येष्ठैन्द्री मूल आस्रपः ।
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 त्त (wrong syllable)
genderस्त्रीfem.
राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया ।मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वातिः स्वाती वायवी च सौवातः स्वातिरत्रजः ।राधे विशाखे ऐन्द्राग्न्यौ विशाखस्तज्ज ईरितः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वातिस्तु वायुभं ख्यातं विशाखेन्द्राग्निभं मतम् ।अनुराधाप्यनूराधा राधा ज्येष्ठा च मित्रभम् ॥ १०९ ॥
अनुष्टुप्
genderस्त्रीfem.
राधा रधा विशाखायां रोहिण्यां रोहिणी मता ।कृत्तिकायां तु कृत्तिः स्यात्कार्तिकेति च गीयते ॥ १२२ ॥
अनुष्टुप्
genderस्त्रीfem.
इन्द्राग्निदेवता राधा विशाखा तदनन्तरम् ।अनुराधा च मैत्री स्थात् ज्येष्ठन्द्री मूल आश्रपः ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
कृत्तिका कृत्तिरप्युक्ता रोहिणी चापि रोहिणिः ।राधा विशाखा विज्ञेया पुष्यायां पुष्य इत्यपि ।सिध्यस्तिर्ष्याऽपि च भवेत् श्रवणा श्रवणं श्रुतिः ॥
अनुष्टुप्
genderस्त्रीfem.
पुंभूम्नि स्युरनूराधा मूले स्यान्मूलबर्हिणी ।राधा विशाखाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियाम् ॥ १९२ ॥
अनुष्टुप्
genderस्त्रीfem.
निष्ठ्या स्वाती विशाखे तु राधे आर्द्रो तु कालिनी ।श्रवणे श्रोणा मूले तु मूलवर्हण्यथ श्रविष्ठासु ॥ ४० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
राधो वैशाखमासे स्याद्राधा च कृष्णगोपिका ।अन्धो दर्शननिर्मुक्तो जन्तुरन्धं तमो मतम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
meaningsकृष्णगोपिका
राता विहारशीले स्त्री राधा स्त्री कर्णमातरि ।विशाखाख्ये च नक्षत्रे तद्युक्ते कालमात्रके ॥ ११०२ ॥
अनुष्टुप्
मेधो यज्ञे स्त्रियां बुद्धौ मुग्धः सुन्दरमूढयोः ।राधो वैशाखमासे ना राधा चित्रे च धन्विनाम् ॥
अनुष्टुप्
meaningsचित्र
विशाखामलकीगोपीविष्णुक्रान्तातडित्सु च ॥
doubtful