All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
धान्ताः · धच
इक्षुगन्धो कोकिलाक्षे क्रोष्ट्यां काशे च गोक्षुरे ॥ २३८ ॥
15.3.238 · p. 22
इक्षुगन्धः सुगन्धौ स्यात्त्रिषु क्लीबं तु वालुके ।उग्रगन्धाजमोदायां वचायां क्षुद्विबोधने ॥ २३९ ॥
15.3.239 · p. 22
अनुष्टुप्
कालस्कन्धः सारतिन्दुतमाले जीवकद्रुमे ।तीक्ष्णगन्धोऽवदंशेऽथ वचाराजिकयोः स्त्रियाम् ॥ २४० ॥
15.3.240 · p. 22
अनुष्टुप्
परिव्याधः कर्णिकारे निचुले चतुरङ्गुले ।महौषधं शृङ्गवेरे लशुने विश्वभेषजे ॥ २४१ ॥
15.3.241 · p. 22
अनुष्टुप्
विषायां च विषे स्त्री तु मत्स्याक्षीमत्स्यपित्तयोः ।हृद्यगन्धं च रुचके ना तु बिल्वाम्रजीरके ॥ २४२ ॥
15.3.242 · p. 22
अनुष्टुप्