गृध्र
gṛdhraपुं · masc.In 15 kośas: 13 synonym verses, 3 as a nānārtha head word, 8 as a meaning of another word.
दाक्षाय्यो दूरदृग्गृध्रोऽथोत्क्रोशो मत्स्यनाशनः ।कुररः कीरस्तु शुको रक्ततुण्डः फलादनः ॥ १३३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।शशादनो वर्तुलाक्षः श्येनोऽपि च निगद्यते ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
तत्रादौ प्रतुदा गृध्रस्तार्क्ष्यश्चिल्लो विजृम्भणः ।आतायी शबली दूरदर्शी स्याद्भुजगान्तकः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
शालियाजा वडाश्चैव लङ्गवः प्राञ्जिका अणिः ।रङ्गणाश्चैव संवाणा गृध्रा अपि च वेसराः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
दाक्षाय्यो गृध्र-दक्षाय्य-दूरदृग्वक्रचञ्चुकाः ।कूणिताक्षः खगव्याघ्रः कामायुः खगपुष्कसः (?) ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
शशादनः श्येनचिल्लावातापी शकुनिश्च सः ।दूरदृग्गृध्रदाक्षाय्या रक्ततुण्डशुकौ समौ ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
नागान्तकः पक्षिसिंहः[ह्वः] काश्यपिर्विष्णुवाहनः ।गृध्रो दाक्षाय्यको दाक्षः पत्त्री शेनः शशादनः ॥ ३६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
गृध्रश्च पुरुषव्याघ्रः शकुनिः कूणितेक्षणः ॥ २४२१ ॥
अनुष्टुप्
genderपुंmasc.
चिल्ल आतायि-वातापि-खभ्रान्ति-कण्ठनीडकाः ।लोहपृष्ठो दीर्घदर्शी गृघ्रो दाक्षाय्य इत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्ति (wrong syllable)
genderपुंmasc.doubtful
चिल्ले आतापिरातापी आतायी नान्तकावुभौ ।कामायौ तु गृध्र-गुत्सौ दाक्षाय्यश्च दक्षाय्यवत् ॥ ३५९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
ऐन्द्रिश्च नाडीजङ्घोऽथ गृध्रः स्याद्दूरदर्शनः ।शितिकण्ठस्तु दात्यूहः काकमद्गुः कगेटुरः ।चिरम्भणस्तु चिल्लः स्यात्खभ्रान्तिः कण्ठनीडकः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।दाक्षाय्यश्चाप्यथ श्येनो वर्तुलाक्षः शशादनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
सीसेऽस्त्रियां पक्षिभिदीह गृध्रोविशेष्यवत्स्याद्धनलुब्धके च ।रोध्रो भवेच्छाबरके च षण्ढेपापे च मन्तौ[48b] विहगेऽपि जिव्रिः ॥ ४९ ॥
उपजातिःmetre not read in every line
meaningsधनलुब्दक
गृध्र as a meaning in nānārtha verses
- धरणिकोश तर्ककनरकौ दैत्यनिरयौ पृथुकौ चिपिटार्भकौ । लासको नर्तके वेष्टे तर्ककौ गृध्रकाङ्क्षिणौ ॥ Dharaṇikośa 1.1.12
- कोषकल्पतरु भासभासस्तु गोष्ठस्थित(?)कुक्कुटे स्या- द्गृध्रे च कान्तावथ दास उक्तः ॥ ७३ ॥ Koṣakalpataru 6.31.73
- नानार्थार्णवसंक्षेप दक्षार्यगृध्रेऽथ दहनः पुंसि वह्नावुष्णगुणेऽपि च । त्रि तु तद्वति शण्डे तु दाहेऽथ दरणं नपि ॥ ८९९ ॥ Nānārthārṇavasaṃkṣepa 4.899
- नानार्थार्णवसंक्षेप दूरदर्शिन्अत्रापि पूर्ववत् सादि दूरदर्शी पुनर्द्वयोः । गृध्रसंज्ञखगे त्रिस्तु (दूर)दर्शमनीषिणोः ॥ २८३ ॥ Nānārthārṇavasaṃkṣepa 6.283
- नानार्थार्णवसंक्षेप सुदर्शनदध्यालीसंज्ञके वल्लीजातिभेदे द्वयोः पुनः । गृध्राह्वये पक्षिभेदे समासादीनि पूर्ववत् ॥ ६७८ ॥ Nānārthārṇavasaṃkṣepa 6.678
- नानार्थार्णवसंक्षेप पुरुषव्याघ्रपुरुषव्याघ्रशब्दोऽयं गृध्राख्यविहगे द्वयोः । पुमांस्तु पुरुषश्रेष्ठे पुमांस्तु पृथिवीपतिः ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 7.70
- शब्दरत्नाकर कमलच्छदअनन्ते वित्तनाथे च तालाङ्केऽप्येककुण्डलः । ध्रुवेऽप्यौत्तानपादिः स्याद् गृध्रेऽपि कमलच्छदः ॥ २२३३ ॥ Śabdaratnākara 4.1.2233
- शब्दरत्नाकर प्रेतनिलयगृध्रेऽपि प्रेतनिलयः श्मशाने वृषभध्वजे । मातुलपुत्रस्तून्मत्तफले मातुलनन्दने । पञ्चबाणे च सरितां पत्यौ च मकरध्वजः ॥ २२३७ ॥ Śabdaratnākara 4.1.2237