All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
णान्ताः · णपादः
॥ इति ढान्तवर्गः ॥
घृणा कृपा जुगुप्सा च तृष्णा लिप्सापिपासयोः ।कर्णौ श्रवणराधेयावुष्णौ ग्रीष्मातपौ स्मृतौ ॥
14.1.2 · p. 48
अनुष्टुप्metre not read in every line
जीर्णे पक्कपुराणे [च] भ्रूणोऽप्यर्भकगर्भयोः ।स्थूणा स्तम्बे च शूर्म्यां च पर्णाख्या किंशुके छदे ॥
14.1.3 · p. 48
अनुष्टुप्
स्थाणुः शिवे [स्थि]रे कीले वृष्णिर्यादवमेषयोः ।रणः स्यात्संयुगे क्काणे शाणः कषमाषचतुष्कयोः ॥
14.1.4 · p. 49
अनुष्टुप्
[27] वेणुर्नृपान्तरे वंशे रेणुः स्वल्पे रजस्यपि ।कीर्णं छन्ने परिक्षिप्ते शीर्णे तनुविशीर्णयोः ॥
14.1.5 · p. 49
अनुष्टुप्
लक्षणं नाम्नि चिह्ने च कोङ्कणः शस्त्रदेशयोः ।दुर्वर्णं रूप्येऽसद्वर्णे प्रोक्षणे वधसेचने ॥
14.1.6 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्येऽ (wrong syllable)
कुर्वाणः कारके भृत्ये धर्मणोऽहिद्रुभेदयोः ।संकीर्णौ निचिताशुद्धौ द्रविणे वित्तविक्रमौ ॥
14.1.7 · p. 49
अनुष्टुप्
कारणं घातने हेतावीरिणं शून्यमूषरम् ।वारुणी सुराप्रतीच्योः सरणिः पङ्क्तिमार्गयोः ॥
14.1.8 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सु (wrong syllable)