क्षुद्रक
kṣudrakaपुं · masc.In 5 kośas: 7 synonym verses, 2 as a nānārtha head word.
धान्यको हेममाषोऽस्त्री स्यात्तत्र हेम नपुंसके ।द्वे कृष्णले रूप्यमाषस्तथा धान्यकणा दश ॥कैश्चित्तु सप्तगुञ्जाभिर्माषकः परिकीर्त्यते ।चतुर्माषस्तु धरणः शाणष्टङ्कश्च न स्त्रियाम् ॥निष्कोऽपि न स्त्री गद्याणो माषकैः षड्भिरीरितः ।क्षुद्रको द्रङ्क्षणः कोलो वटक*[ स्त्व? ]ष्टयुग्मकम् ॥ ५ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कफोपरुद्धगमनः पवनः श्वास उच्यते ।श्वासभेदाः क्षुद्रकः स्याच्छिन्नश्च तमकस्तथा ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
दभ्राणू तलिनं तुच्छं क्षुल्लकं क्षुद्रकं दरम् ।सूक्ष्मं श्लक्ष्णं पेलवं च लव-लेश-कणा नरि ॥ ७७ ॥
अनुष्टुप्
genderविadj.
संख्यायामपि पिशुने मत्सरो मत्सरी खलः ।प्रखलः खुल्लकः क्षुल्लः क्षुद्रकः क्षुद्रसंयुतः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderपुंmasc.
फाणितं क्षुद्रकं खण्डमस्त्रियां शर्करा सिता ।बर्हिः पुष्पं ग्रन्थिपर्णं स्थौणेयं कुक्करं शुकम् ॥ १४९१ ॥
अनुष्टुप्
genderक्लीneut.
वस्नं चाथो भूलवणं कनिष्ठं पाक्यमुद्भिदम् ।क्षुद्रकं पांसुलवणं कुप्यं पानीयसंभवम् ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
फाणितं क्षुद्रकं खण्डं न स्त्र्यथो शर्करा सिता ।मधूलं तु मधुर्न स्त्री मधुकं तत्पुरातनम् ॥ १३४ ॥
अनुष्टुप्
genderक्लीneut.
तथैव कुप्यलवणसंज्ञे स्याल्लवणान्तरे ।द्वे तु क्षत्रियभेदे स्यात् क्षुरप्रस्तु पुमानयम् ॥ ५४८ ॥
अनुष्टुप्
doubtful