गृहस्थूण
gṛhasthūṇaक्ली · neut.In 3 kośas: 4 synonym verses.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderक्लीneut.doubtful
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
प्रच्छन्नमन्तर्द्वारं स्याद्भित्तिः कुड्यं नपुंसकम् ।वेश्मस्थूणा गृहस्थूणं वेदिका तु वितर्दिका ॥ ८५२ ॥
अनुष्टुप्
genderक्लीneut.
गोपानसी तु वलभी छादने वक्रदारुणि ।वेश्मस्थूणा गृहस्थूणमुल्बस्थूणा तु पादिका ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.