नयन
nayanaक्ली · neut.In 15 kośas: 15 synonym verses, 9 as a meaning of another word.
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderक्लीneut.
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥
आर्या
genderक्लीneut.
पालिः स्त्री कर्णलतिका शंखोऽस्त्री भ्रूश्रवोन्तरा ।विलोचनं चक्षुरक्षि लोचनं नयनाम्बके ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
नयनं नायनं नाय उपादथ द्विजायनम् ।स्यात्सूत्रं ब्रह्मयज्ञाभ्यां पवित्रमुपवीतकम् ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderक्लीneut.
शङ्खोऽस्त्री स्याद्भालकर्णमध्यगः स्त्री तु दृग्दृशा ।दृष्टिश्च न स्त्रियां नेत्रं नयनं चक्षुरक्षिणी ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
दृगक्षि चक्षुर्नयनं दृष्टिर्नेत्रं विलोचनम् ।कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
अनुष्टुप्
genderक्लीneut.
दृक् दृष्टिर्नयनं नेत्रं लोचनं चक्षुरक्षिणी ।अपाङ्गो लोचनप्रान्तः कटाक्षः कुटिलेक्षितम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
नेत्रं च नयनं चक्षुर्लोचनं च विलोचनम् ।ईक्षणं दर्शनं दृष्टिर्देवदीपोऽक्षि वै पुनः ॥ ९२२ ॥
अनुष्टुप्
genderक्लीneut.
नयनं लोचनं नेत्रं चक्षुरक्षिविलोचनम् ।आत्मकं दृग्दृशादृष्टिर्वीक्षणं प्रक्षणेक्षणम् ॥
अनुष्टुप्
genderक्लीneut.
दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् ।अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥
अनुष्टुप्
genderक्लीneut.
ईक्षणं नयनं चक्षुरक्षि लोचनमंबकम् ।दृष्टिर्दृक् चाथ न पुमांस्तारकाक्ष्णः कनीनिका ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
नयन as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) अक्षआचारे नयनादौ द्यूतविशेषे तथा रथावयवे । अक्षं विभीतकेऽपि प्रयुञ्जते पञ्चसु प्राज्ञाः ॥ ८५२ ॥ Abhidhānaratnamālā (Halāyudha) 5.852
- कोषकल्पतरु नेत्रनेत्रं तु न स्त्री नयने च वस्त्र- भेदे द्रुमूले रथवस्तिनाड्योः । मथो गुणेऽन्यत्र तु नेतृवाची क्षेत्रं तु केदारशरीरयोः स्यात् ॥ ३४ ॥ Koṣakalpataru 6.27.34
- नानार्थार्णवसंक्षेप अक्ष्णअक्ष्णं क्ली नयनेऽक्ष्णा स्त्री रज्जौ व्याधौ पुमांस्त्रि तु । अखण्डेऽथ द्वयोरक्तः प्रेते त्रि म्रक्षितादिषु ॥ ४२ ॥ Nānārthārṇavasaṃkṣepa 2.5.42
- नानार्थार्णवसंक्षेप काष्ठास्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि । दक्षिणोत्तरयोरन्यतरस्मिन्नयने रवेः ॥ १८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.185
- नानार्थार्णवसंक्षेप ईक्षणहृषीक इन्धनं तु स्याद् दीपनाग्न्यर्थकाष्ठयोः । ईक्षणं तु क्रियायां स्यात् पश्यतेर्नयनेऽपि च ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 3.3.12
- नानार्थार्णवसंक्षेप अम्बकतिथौ रुद्रस्याष्टमः स्यादष्टानां पूरणे त्रिषु । अम्बकं नयने क्लीबं पार्वत्यां त्वम्बिका स्त्रियाम् ॥ ८९ ॥ Nānārthārṇavasaṃkṣepa 4.89
- शब्दरत्नावली दृष्टिअथ दृष्टिर्मनीषायां दर्शने नयनेऽपि च । घटो दिवा तुलायां ना खण्डवस्त्रे घटी स्त्रियाम् ॥ Śabdaratnāvalī 7.11.20
- शब्दरत्नावली ईक्षणईक्षणं नयने दृष्टौ ईरिणं शून्य उषरे । उषणा स्त्रीकणायां स्यादुषणं मरिचेऽपि च ॥ एषणी व्रणमार्गानुसारिण्यां मानभेदके । करुणा स्त्री कृपायाञ्च करुणो रसवृक्षयोः ॥ Śabdaratnāvalī 7.15.26
- शब्दरत्नावली दर्शनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57