अम्बु
ambuक्ली · neut.In 18 kośas: 18 synonym verses, 2 as a nānārtha head word, 31 as a meaning of another word.
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
जीवनं भुवनं यादः पावनं क्षणदं दकम् ।अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
निर्वाणमपि कैवल्यमक्षरं च महासुखम् ।अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥ १५५ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रियामापो वारो बहुषु सलिलं वारि सरिलंजलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः ।कबन्धं कं पाथं घृतममृतमर्णो जनहितंकृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥
शिखरिणी
genderक्लीneut.
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
वार्वारि कं पयोऽम्भोऽम्बु पाथोऽर्णः सलिलं जलम् ।सरं वनं कुशं नीरं तोयं जीवनमब्विषम् ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
आपः स्त्रियां बहुत्वे च मेघपुष्पार्णसी मते ।अमृतं प्राणदं नारं ? जीवनीयाम्बुनी अपि ॥ ३४६ ॥
अनुष्टुप्
genderक्लीneut.
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
अनुष्टुप्
genderक्लीneut.
कबन्धं कमलं चाऽम्भः कमन्धं शम्बरं दकम् ।अर्णोऽम्बु चाऽमृतं कं वाः आपोऽप् च सर्वतोमुखम् ॥ १८५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
वार्वारि तोयमुदकं नीरपानीयसम्बरम् ।अम्भः क्षीराम्बु सलिलं सर्वतोमुखजीवनम् ॥
अनुष्टुप्
genderक्लीneut.
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
शिखी गोत्रा तोय-शून्ये जवी द्युतीरभिस्मृतः ।भूमी रसो नभश्चैव व्याप्तं दाहो रसाऽम्बु चा ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्यु (wrong syllable)
genderक्लीneut.
जलं वारि वनं वा कं पाथस्तोयं रसोऽम्बु हृत् ।दशानां जलवर्णानां संज्ञोक्ता पूर्वसूरिभिः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
जलं-ऋ, वारि-ॠ, वनं-औ, वाः-घ, कं-झ, पाथः-ढ, तोयं-ध, रसः-भ, अम्बु-व, हृत्-स
genderक्लीneut.
गडुः किञ्चुलुकोऽथाऽम्बुर्विकिरश्चूडकश्च सः ।चुण्टा चुण्टी च लूताऽथान्धकूपः कर्करान्धुकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
अम्बुच्छन्दोविशेषे स्यान्नवत्यक्षरलक्षिते ।लग्नाच्चतुर्थे राशौ स्यादिति सांवत्सरा विदुः ॥ ५ ॥
अनुष्टुप्
ह्रीबेरे सलिलेऽथ स्यादम्भो ह्रीबेरतोययोः ।द्व्यशीतिस्वरके छन्दस्यष्टाशीत्यक्षरे तथा ॥ ६ ॥
अनुष्टुप्
doubtful
अम्बु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् क्मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः । Amarakośa 3.3.7
- नामलिङ्गानुशासनम् पयस्ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोम्बु च । Amarakośa 3.3.454
- हलायुधकोशः (अभिधानरत्नमाला) कउक्तानामप्यनुक्तानां शब्दानामिह संग्रहः । कशब्दः सुखवाय्वम्बुब्रह्ममस्तकवाचकः ॥ ८४७ ॥ Abhidhānaratnamālā (Halāyudha) 5.847
- धरणिकोश सर्वतोमुखसर्वतोमुखमम्बु स्यात्क्षेत्रज्ञः सर्वतोमुखः । शीतमयूखशब्दोऽयं चन्द्रकर्पूरयोः स्मृतः ॥ Dharaṇikośa 2.2.10
- धरणिकोश गोगोशब्दः पशुभूम्यंशुवाग्दिगर्थः प्रयुज्यते । स्वर्गलोचनबाणाम्बुकुलिशार्थोऽपि दृश्यते ॥ Dharaṇikośa 3.3.1
- धरणिकोश कीलालधूली संख्यान्तरे पांसौ दोला यानं च सीविका । आभीलं भीषणे कृच्छ्रे कीलालमसृगम्बुनोः ॥ Dharaṇikośa 27.1.5
- कोषकल्पतरु निनिःक्षेपे नियमे निवेशभ(भृ?)शयोर्दानेऽन्तिके दर्शने- न्तर्भावोपरमाश्रयाम्बुषु तयोधा(?)भावविन्यासके । हर्षे चौर्यनिकृष्टवर्जनविपर्यासप्रमोदेष्वप स्याद्विश्लेषविकारयोरुप पुनर्हीनेऽधिके चान्तिके ॥ ४ ॥ Koṣakalpataru 5.1.4
- कोषकल्पतरु कम्कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोः पृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि । स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो- र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥ Koṣakalpataru 5.1.6
- कोषकल्पतरु विटषिङ्गे विटोऽस्त्री लवणाम्बुशैल- वालच्छदेषु प्रथितः स पुंसि । सिङ्घाणकादौ तु घृतादिकाना- मधःस्थभागेंऽहसि किट्टमस्त्री ॥ Koṣakalpataru 6.10.6
- कोषकल्पतरु पाथतिथोऽनले स्यान्मदनेऽथ नीथं स्तोत्रे गुदे नेतरि वाच्यलिङ्गम् । पाथो रवौ नाम्बु हविर्गतोऽन्त्ये कोथोऽक्षिरोगे शटिते च मन्थे ॥ ९३ ॥ Koṣakalpataru 6.18.93
- कोषकल्पतरु वनवनं तु कान्तारजल * * * [10b]निवासकप्रस्रवणेषु षण्ढे । सुभूरिवृक्षाम्बुनि रौद्रदेश- काष्ठान्तकीटेष्वपि संप्रदिष्टम् ॥ ८५ ॥ Koṣakalpataru 6.21.85
- कोषकल्पतरु पुष्कर[55b]तीवरो नाम्बुधौ व्याधवाची तथा जातिभेदेऽप्यथो धींवरो दासके । पण्डिते पण्डितैर्वाच्यवत्कीर्तितः पुष्करं त्वम्बुनि व्योम्नि तूर्यानने ॥ ३१ ॥ Koṣakalpataru 6.27.31
- नानार्थार्णवसंक्षेप गोनृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । अश्वानां प्रग्रहेऽप्येष यत्साधारणनामसु ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 1.5.4
- नानार्थार्णवसंक्षेप क्षपगोजाविमहिषाणां स्यादत्यार्द्रच्छगणे तथा । धान्यस्तम्बे समाम्नाये त्वम्बुनामसु दृश्यते ॥ १४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.145
- नानार्थार्णवसंक्षेप अक्षरक्ली तु वाचि विधौ धर्मे वर्णेऽम्बुतमसो क्रतौ । अक्षराख्ये सामभेदे खे मोक्षे मूलकारणे ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 4.6
- शिवकोष अमृतअमृतं त्वक्षदुग्धाम्बुसुधाकाकोलसर्पिषि ॥ १८७ ॥ Śivakoṣa 12.2.187
- शब्दरत्नावली नाराचनमुचिर्दैत्यभेदे स्यात् तथा कुसुमसायके । नाराचो लोहबाणाम्बुहस्तिनोस्तेषनीषु च(?) ॥ Śabdaratnāvalī 7.6.13
- शब्दरत्नावली कृत्स्नअग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् । अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये । उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥ Śabdaratnāvalī 7.20.2
- शब्दरत्नावली वारिदेशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् । वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥ वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् । वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥ Śabdaratnāvalī 7.27.36
- शब्दरत्नावली हीराहिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके । हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः ॥ होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः । Śabdaratnāvalī 7.27.51
- शब्दरत्नावली विषवर्षोऽस्त्री भारताद्यब्दजम्बुद्वीपेषु वर्षणे । केचित्क्लीवमिति प्राहुर्बहुत्वे प्रावृषि स्त्रियाम् ॥ विट् व्याप्तिविष्ठयोः स्त्री स्याद्विषञ्च गरलाम्बुनोः । भवेदतिविषायां स्त्री विषो दन्तः क्वचिद्भवेत् ॥ Śabdaratnāvalī 7.31.14
- शब्दरत्नावली पयस्पनसा रोगभेदे स्याद्वानरीराक्षसीभिदोः । पयः क्षीराम्बुनोः क्लीबं पुक्कसश्वपचेऽधने ॥ Śabdaratnāvalī 7.32.26
- शब्दरत्नावली घनरसकुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि । भवेद्धनरसः सान्द्रनिर्यासे मोरटेऽम्बुनि ॥ Śabdaratnāvalī 7.32.44
- शब्दरत्नाकर इराआशीः स्यादभिलाषेऽथ स्यादिनः स्वामिसूर्ययोः । इरा सुराम्बुभूवाक्षु सगोनडीषु तास्विडा ॥ १८७४ ॥ Śabdaratnākara 4.1.1874
- शब्दरत्नाकर इलाइला तु तासु सार्घ्यासु स्यादिष्टिर्यजनेच्छयोः । सुत्रामसूर्ययोरिन्द्र ईतिः क्लेशोपसर्गयोः ॥ १८७५ ॥ Śabdaratnākara 4.1.1875
- शब्दरत्नाकर गोद्वयोः सायकवज्राम्बुस्वर्गयज्ञेषु लोम्न्यपि । ज्या शिज्जिनीवसुधयोस्त्विड्ज्वालादीप्तिकान्तिषु ॥ २२४२ ॥ Śabdaratnākara 4.1.2242
- त्रिकाण्डशेष कबन्धराहौ शिरःशून्यकाये कबन्धः क्लीबमम्बुनि । गोधा तले निहाकायां गन्धो गर्वे लवेऽपि च ॥ २१७ ॥ Trikāṇḍaśeṣa 3.3.217
- वैजयन्ती इराइलाप्येतासु चार्घे च स्यादिज्या यागपूजयोः । इष्टिः स्पृहायजनयोरिरा भूवाक्सुरांबुषु ॥ ४ ॥ Vaijayantī 6.2.4
- वैजयन्ती क्षीरओजोऽवष्टंभबलयोरोकसी मंदिराश्रमौ । क्रियायजनयोः कर्म क्षीरं दोहनमंबु च ॥ ४ ॥ Vaijayantī 6.3.4
- वैजयन्ती घृतक्षेत्रं गृहे पुरे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतं त्वाज्येंऽबुसर्पिषोः ॥ ६ ॥ Vaijayantī 6.3.6
- वैजयन्ती रेतस्रहो रहस्ये सुरते रिष्टं नाशे शुभेऽशुभे । रुक्मं हेम सुलोहं च रेतसी शुक्लमंबु च ॥ २७ ॥ Vaijayantī 6.3.27