कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अक्षि

akṣiक्ली · neut.

In 19 kośas: 17 synonym verses, 1 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.575 · p. 25
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.93
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.519 · p. 59
दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥
आर्या
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.20 · p. 2
द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः ।यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.145 · p. 36
पालिः स्त्री कर्णलतिका शंखोऽस्त्री भ्रूश्रवोन्तरा ।विलोचनं चक्षुरक्षि लोचनं नयनाम्बके ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 219
शङ्खोऽस्त्री स्याद्भालकर्णमध्यगः स्त्री तु दृग्दृशा ।दृष्टिश्च न स्त्रियां नेत्रं नयनं चक्षुरक्षिणी ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 99 · p. 49
दृगक्षि चक्षुर्नयनं दृष्टिर्नेत्रं विलोचनम् ।कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.240 · p. 130
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.82 · p. 6
दृक् दृष्टिर्नयनं नेत्रं लोचनं चक्षुरक्षिणी ।अपाङ्गो लोचनप्रान्तः कटाक्षः कुटिलेक्षितम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.30 · p. 22
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.922 · p. 140
नेत्रं च नयनं चक्षुर्लोचनं च विलोचनम् ।ईक्षणं दर्शनं दृष्टिर्देवदीपोऽक्षि वै पुनः ॥ ९२२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.316 · p. 103
नयनं लोचनं नेत्रं चक्षुरक्षिविलोचनम् ।आत्मकं दृग्दृशादृष्टिर्वीक्षणं प्रक्षणेक्षणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.158 · p. 201
कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् ।नेत्रेक्ष्यऽक्ष्णं दृशि-दृशे दृग्लोचन-विलोचने ॥ १५८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1084 · p. 134
दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् ।अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.94 · p. 180
ईक्षणं नयनं चक्षुरक्षि लोचनमंबकम् ।दृष्टिर्दृक् चाथ न पुमांस्तारकाक्ष्णः कनीनिका ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.4 · p. 33
हरिताले वृश्चिकस्य पुच्छकण्टक एव च ।अक्षि नेत्रे तथेक्ष्वादेः काण्डस्यावयवान्तरे ॥ ४ ॥
अनुष्टुप्

अक्षि as a meaning in nānārtha verses