कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दरद्

daradस्त्री · fem.

In 5 kośas: 4 synonym verses, 4 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.14 · p. 128
भृगुः प्रपातोऽप्यतटः स्त्रियां दरदपि स्मृता ।बहिर्निर्गतदेशस्तु प्राग्भारो दन्तको गिरेः ।द्रोणिस्तु शैलयोः संधिः पादाः प्रत्यन्तभूधराः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderस्त्रीfem.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.1 · p. 267
{लिङ्गादिसङ्ग्रहेऽनुक्तममरेणाऽभिदध्महे ।}स्त्रियामाजिर्दरज्जातिः पूरुभाद्राः समाः शरत् ।सिकताद्या बहुत्वेऽपि विंशत्याद्येकवागपि ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.39 · p. 237
स्याच्छ्वभ्रेगतिगोचरेऽपि च गवां माने तथा गोष्पदंवर्षर्त्वोः शरदीरिता गिरिभृगुत्रासेषु नीवृद्भिदि ।स्त्री म्लेच्छेऽपि दरन्मताथ च दृषत्पाषाणमात्रे स्त्रियांनिष्पेषोपलकेऽथ पुंसि न भसद्वक्त्रे तथामाशये ॥ ३९ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.582 · p. 92
न्यग्रोधीसंज्ञकस्तम्बे दरत् तु स्त्री भये हृदि ।नद्यां प्रपाते चेत्येके विष्ठायामिति कश्चन ॥ ५८२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.583 · p. 92
हिमवत्तट इत्यन्ये राजभेदे तु पुंस्ययम् ।तस्यैव पुमपत्येषु भूम्नि देशस्य भूपतेः ॥ ५८३ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.18 · p. 221
दरदो भीतिहृद्गूढा दृष्टिर्धीदर्शनाक्षिषु ।द्रोणी स्यादम्बुवाहिन्यां द्रवभाण्डे गिरिप्लवे ॥ १८ ॥
अनुष्टुप्