मात्रा
mātrāस्त्री · fem.In 14 kośas: 16 synonym verses, 11 as a nānārtha head word, 2 as a meaning of another word.
त्रुटौ मात्रा लवो लेशः कणो ह्रस्वं पुनर्लघु ॥ १४२७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।
अनुष्टुप्
genderस्त्रीfem.
सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
अनुष्टुप्
genderस्त्रीfem.
सूक्ष्मं श्लक्ष्णं कृशं दभ्रमथ मात्रा स्त्रियां त्रुटिः ।लवलेशकणाः पुंसि स्यादत्यल्पेप्यणुः कणाः ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
धारा परम्परा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया ।प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
यावत्पतत्यसौ बिन्दुरथ पर्येति दक्षिणम् ।जानु यावत्कराग्रं स्वं तावन्मात्रा प्रकीर्तिता ॥
अनुष्टुप्
genderस्त्रीfem.
त्रुटिस्तुटिश्च मात्रा स्त्री ह्रस्वं तु लघु संस्मृतम् ।अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.
यात्रा मात्रा चित्रा छत्राभस्त्रा भद्रा क्षुद्रा मुद्राः ।इन्द्रा गुन्द्रा वध्री धाराधीरा कारा कस्तूरी च ॥ ६७ ॥
metre not recognised
genderस्त्रीfem.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderस्त्रीfem.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderस्त्रीfem.
प्रतिसीरा दशा भद्रा भस्त्रा छत्रा कशा कुशा ।यात्रा मात्रा बला माला दंष्ट्रा लीला च शङ्कुला ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
विश्वं कृत्स्नं तथाशेषं खण्डेऽर्धं शकलं दलम् ।स्तोकं तुच्छं दभ्रमल्पं मात्रा लेशः कणो लवः ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
कणो मात्रा लवो लेशस्त्रुटी त्रुटिर्निगद्यते ॥ २५९५ ॥
metre not recognised
genderस्त्रीfem.
तिमात्रं प्लुत आख्यातं नाट्यशास्त्रानुसारतः ।पञ्चलघ्वक्षरः कालो मात्रा निगदिता बुधैः ॥
अनुष्टुप्
genderस्त्रीfem.
अल्पे स्तोकक्षुल्लसूक्ष्मं क्षुल्लकञ्च कृशं तनु ।दभ्रं क्षुल्वं क्षुल्वकञ्च स्त्रियां मात्रा त्रूटी कणा ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 त्रू (wrong syllable)
genderस्त्रीfem.
त्रुटिर्मात्रा स्त्रियौ पुंसि कणलेशलवाणवः ।शून्यं तु वशिकं तुच्छं रिक्तं च विदृढो दृढः ॥ १६७६ ॥
अनुष्टुप्
genderस्त्रीfem.
करणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः ।मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥
metre not recognised
meaningsपरिच्छद
ह्रस्ववर्णप्रयोगस्य काले पारे तु कश्चन ।स्यात् तूत्तरपदे क्लीबं मात्रं कार्त्स्न्येऽवधारणे ॥ ९८० ॥
अनुष्टुप्
मन्त्रो वेदगुह्यवाददेवादिसाधनेषु च ।मात्रा विचे परिच्छेदे माने कर्णविभूषणे ॥
अनुष्टुप्metre not read in every line
मात्रा as a meaning in nānārtha verses
- धरणिकोश प्रतिप्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति ॥ Dharaṇikośa 34.7.7
- वैजयन्ती प्रतिपुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे । प्रतिदाने प्रतिनिधौ तुल्ये मात्राभिमुख्ययोः ॥ २४ ॥ Vaijayantī 8.7.24