चक्षुस्
cakṣusक्ली · neut.In 18 kośas: 17 synonym verses, 8 as a meaning of another word.
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderक्लीneut.
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥
आर्या
genderक्लीneut.
पालिः स्त्री कर्णलतिका शंखोऽस्त्री भ्रूश्रवोन्तरा ।विलोचनं चक्षुरक्षि लोचनं नयनाम्बके ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
विपाशाथ हिरण्यात्स्याद्बाहुर्वाहश्च शोणकः ।काञ्चनाक्षी विशाला च चक्षुः सिन्धुः सरस्वती ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
हृषीकं त्वक्षं विषयस्रोतः करणमिन्द्रियम् ।खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
शङ्खोऽस्त्री स्याद्भालकर्णमध्यगः स्त्री तु दृग्दृशा ।दृष्टिश्च न स्त्रियां नेत्रं नयनं चक्षुरक्षिणी ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
दृगक्षि चक्षुर्नयनं दृष्टिर्नेत्रं विलोचनम् ।कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
अनुष्टुप्
genderक्लीneut.
दृक् दृष्टिर्नयनं नेत्रं लोचनं चक्षुरक्षिणी ।अपाङ्गो लोचनप्रान्तः कटाक्षः कुटिलेक्षितम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
नेत्रं च नयनं चक्षुर्लोचनं च विलोचनम् ।ईक्षणं दर्शनं दृष्टिर्देवदीपोऽक्षि वै पुनः ॥ ९२२ ॥
अनुष्टुप्
genderक्लीneut.
नयनं लोचनं नेत्रं चक्षुरक्षिविलोचनम् ।आत्मकं दृग्दृशादृष्टिर्वीक्षणं प्रक्षणेक्षणम् ॥
अनुष्टुप्
genderक्लीneut.
दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् ।अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥
अनुष्टुप्
genderक्लीneut.
कक्षीवन्मुष्कव[च्चक्षु]र्विश्वकर्मदुवस्यवः ।सोमाहुतिश्चित्रमहा वसुकृद्धरुणो द्वितः ॥ १७७४ ॥
अनुष्टुप्
genderपुंmasc.
ईक्षणं नयनं चक्षुरक्षि लोचनमंबकम् ।दृष्टिर्दृक् चाथ न पुमांस्तारकाक्ष्णः कनीनिका ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
चक्षुस् as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) ज्योतिस्गिरिसानुन्यपि वप्रं तल्पं दारेषु चक्षुषि ज्योतिः । चौर्यादावपि हिंसा प्रसरः प्रणयेऽपि निर्दिष्टः ॥ ८१० ॥ Abhidhānaratnamālā (Halāyudha) 5.810
- धरणिकोश धातुधातुः श्लेष्मादिरूप्यादिपृथ्व्यादिचक्षुरादिषु । मनःशिलादिभूवाद्योर्विशेषादस्थ्नि गैरिके ॥ Dharaṇikośa 15.3.7
- नानार्थार्णवसंक्षेप पीतुपीतुर्ना भास्करे बालघृतपानार्थभाजने । चक्षुषि द्वे तु विहगे पीलुस्तु नरि पादपे ॥ ७८० ॥ Nānārthārṇavasaṃkṣepa 2.5.780
- शब्दरत्नावली नेत्रविमाने चक्षुषि क्लीबं लक्ष्मीनाड्योरपि स्त्रियाम् । परो विदूरश्रेष्ठान्योत्तरे क्लीबन्तु केवले ॥ Śabdaratnāvalī 7.27.22
- तन्त्राभिधान अंअ-ङ्कारश्चक्षुषी दन्तो घटिका समगुह्यकः । प्रद्युम्नः श्रीमुखी प्रीतिर्बीजयोनिर्वृषध्वजः ॥ ४९ ॥ Tantrābhidhāna 2.16.49
- त्रिकाण्डशेष ईक्षणअभीक्ष्णं तु भृशे नित्ये स्यादिन्द्राणीन्द्रयोषिति । स्त्री बन्धे सिन्धुवारे च चक्षुर्दर्शनमीक्षणम् ॥ १२१ ॥ Trikāṇḍaśeṣa 3.3.121
- त्रिकाण्डशेष दर्शनदर्शनं वर्णमुकुरचक्षुःशास्त्रोपलब्धिषु । स्त्री दीर्घकोष्यां दुर्नामाऽर्शसि द्युम्नं बले धने ॥ २४३ ॥ Trikāṇḍaśeṣa 3.3.243
- वैजयन्ती दर्शनतेमनं व्यञ्जने क्लेदे तोत्रे तोदे च तोदनम् । दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु ॥ १७ ॥ Vaijayantī 7.3.17