कानन
kānanaक्ली · neut.In 17 kośas: 18 synonym verses, 3 as a nānārtha head word, 10 as a meaning of another word.
अरण्यमटवी सत्त्रं वार्क्षं च गहनं झषः ।कान्तारं विपिनं कक्षः स्यात्षण्डं काननं वनम् ॥ १११० ॥दवो दावः प्रस्तारस्तु तृणाटव्यां झषोऽपि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
genderक्लीneut.
genderक्लीneut.
अरण्यमटवी सत्त्रं कान्तारं काननं वनम् ।विपिनं गहनं चेति नातिभिन्नार्थमिष्यते ॥ २१० ॥
अनुष्टुप्
genderक्लीneut.
वार्क्षिकं कानने तु स्याद्वृक्षे तु वसुविष्टिका ।लतायां वल्लरी वल्ली पुष्पे सूनं मणीचकम् ॥ २०२ ॥
अनुष्टुप्
genderक्लीneut.
विग्रो विघ्रश्च विनसः पीनसी गतना विखुः ।विक्लिधो घ्राणदुर्गन्धिरथ काणस्तु काननः ॥ १११ ॥
अनुष्टुप्
genderविadj.
समञ्जं हिङ्गुलं वार्क्षं कक्षं काननयित्यपि ।दवदावावुभौ पुंसि प्रस्तारोऽपि झषोऽपि च ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
अरण्यमस्त्री विपिनं कान्तारं समजं त्रसम् ।गहनं गुहिनं वार्क्षं सत्रं षण्डं च काननम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderक्लीneut.
विपिनं गहनं कक्षमरण्यं काननं वनम् ।कान्तारमटवी दुर्गम् तच्चरः स्याद्वनेचरः ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
धूमयोनिन्यथ ज्ञेयं कश्मलं मोहविष्ठयोः ।अथ स्यात् कत्तृणं कुट्यां तृणभेदेऽथ काननम् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
वायुवर्गोऽयमाख्यातो विद्वदम्बुजभानुना ।वनं वार्क्षं झषः कक्षः कान्तारोऽरण्यकानने ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
विपिनं काननारण्ये गहनं गह्वरं वनम् ।आक्रीडो वातिकोद्यानमारामो राजकाननम् ॥ १४८ ॥
अनुष्टुप्
genderक्लीneut.
संकुचितं मीलितं च निद्राणं मुद्रितं स्मृतम् ।षण्ड आराम उद्यानं विपिनं काननं वनम् ॥ १३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderक्लीneut.
वनं वार्क्षं दवो दावो विपिनं गहनं झषः ।अरण्यमटवी सत्रं कान्तारं काननं पुनः ॥ १९४७ ॥
अनुष्टुप्
genderक्लीneut.
अरण्यमटवी दावो दवो गहनकाननम् ।अटविर्झाटगुहिनवनं विपिनभीरुकम् ।अरण्यानी महारण्यं गृहारामास्तु निष्कुटाः ॥
अनुष्टुप्
genderक्लीneut.
काननं विपिनारण्यगहनानि वनं वनी ।अटवी दवदावौ च कान्तारं सत्रमित्यपि ॥ ४३५ ॥
अनुष्टुप्
genderक्लीneut.
अटवी काटिकाऽरण्यं विपिनं काननं वनम् ।कक्ष्यकं कुन्दिलं वार्क्षं वनी गहनमित्यपि ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
व्यासे कर्णे कन्यकानन्दने चकानीनः स्यात्काननं स्याद्गृहेऽपि ।धातुर्वक्त्रे स्याद्वने काञ्चनस्तुचाम्पेये स्याच्चम्पके काञ्चनारे ॥ ६४ ॥
शालिनी
ब्रह्मास्ये च वने चाथ कीलालं रुधिरे जले ।अन्ने पक्कान्ननिःष्यन्देऽप्यमृते रभसोऽपठीत् ॥ २३ ॥
अनुष्टुप्
doubtful
काननं धातृवक्त्रे स्याद्गेहे च विपिनेऽपि च ॥
कानन as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वनरत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥ Amarakośa 3.3.126
- हलायुधकोशः (अभिधानरत्नमाला) दवकर्मविपाकेऽपि दशागती स्मृते काननेऽपि दवदावौ । चूडाशिखे शिरस्यपि हस्तिन्यां धेनुकागणिके ॥ ७९९ ॥ Abhidhānaratnamālā (Halāyudha) 5.799
- धरणिकोश खण्डअण्डं पेश्यां च मुष्के च खण्डौ काननगोपती । पण्डः क्लीबे मतिः पण्डा व्याडः पन्नगहिंस्रयोः ॥ Dharaṇikośa 12.1.1
- धरणिकोश वनद्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः । वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥ Dharaṇikośa 19.1.1
- धरणिकोश कान्तारकान्तारः कानने इ[83]क्षौ कान्तारो दुर्गवर्त्मनि । मन्दारः सुरवृक्षे स्यात्पारिभद्रार्कपर्णयोः ॥ Dharaṇikośa 26.2.59
- नानार्थार्णवसंक्षेप वनकानने गहने यज्ञे धनप्रीतिगभस्तिषु । वस्तु ग्रामनगर्यादिपदार्थे स्वापतेयके ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 2.3.56
- परमानन्दीयनाममाला षण्डषण्डस्तु कानने भेदे षष्ठी गौर्यां तिथावपि ॥ ३६० ॥ Paramānandīyanāmamālā 5.26.360
- शब्दरत्नावली कान्तारकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63
- शब्दरत्नावली तलज्याघातवारणे क्लीबं कार्यबीजे च कानने । तालं करतलास्फालमध्यमाङ्गुष्ठसस्मिते ॥ Śabdaratnāvalī 7.28.17
- वैजयन्ती वनवर्चोऽर्चीरूपविड्भाः सु वनं भास्यप्सु कानने । व्रतं विष्ण्वृतुवर्षेज्यातपोमासाग्निभुक्तिषु ॥ ३१ ॥ Vaijayantī 6.3.31