All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · घकारादयः
अथ धकारादयो यथा ।
घर्मो ग्रीष्मोष्मतापे स्यात्तापे स्वेदजले तथा ।घोषस्त्वाभीरपल्लौ स्यात्कांस्यघोषकयोरपि ॥ १७२ ॥
5.10.172 · p. 183
अनुष्टुप्
घृतं दीप्तौ जलेऽथाज्ये घृणा निन्दा दया स्मृता ।घटा गोष्ठ्यां गजश्रेणौ घृणिर्ज्वालांशुवीचिषु ॥ १७३ ॥
5.10.173 · p. 184
अनुष्टुप्
घटो गजशिरःकूटे कलशे लसतोषयोः ।कर्पूरे घनसारः स्यात्पानीये मोरटेऽपि च ॥ १७४ ॥
5.10.174 · p. 184
अनुष्टुप्