जेमन
jemanaक्ली · neut.In 13 kośas: 13 synonym verses.
न्यादः स्वदनं खादनमशनं निघसो वल्भनमभ्यवहारः ।जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं घसिराहारः ॥ ४२३ ॥प्सानावष्वाणविष्वाणा भोजनं जेमनादने ।
metre not recognised
genderक्लीneut.
उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम् ॥ ५५ ॥जेमनं लेह आहारो निघासो न्याद इत्यपि ।
अनुष्टुप्
genderक्लीneut.
वल्भनमभ्यवहारः प्रत्यवसानं च जेमनं जग्धिः ।खादनमशनं भक्षणमाहारो भोजनं स्वदनम् ॥ ३२५ ॥
आर्या
genderक्लीneut.
क्षुत् क्षुधा तृट् तृषा तर्षो जमनं जेमनं भवेत् ।ऋषभो वृषभः शण्ढः शण्डः षण्डश्च दृश्यते ॥ २३९ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्रियां रोचकश्चापि तत्र लेपस्तु भोजनम् ।जेमनं स्वादनं जग्धिर्वल्लनं चापि जक्षणम् ॥ ३०३ ॥
अनुष्टुप्
genderक्लीneut.
आचितीनं त्वाचितिकं पात्रीणं पात्रिकं तथा ।सर्वपात्रव्यापकं यत्सर्वपात्रीणमुच्यते ॥प्रस्थंपचादित्रितये देहयात्रा तु भोजनम् ।जक्षणं भक्षणं प्रत्यवसानं जेमनादने ॥ ७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्वा (wrong syllable)
genderक्लीneut.
आहारो जक्षणं जग्धिर्भक्षणं घसिजेमने ।वल्भनं निघासश्चापि चूर्णनं चर्वणं समम् ॥ ८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घा (wrong syllable)
genderक्लीneut.
स्यादम्बुपानतात्पर्ये तूदन्या तर्पणं च तृट् ।भोजने जेमनं न्यादो निघसो लेपनं तरिः ॥ ४८३ ॥
अनुष्टुप्
genderक्लीneut.
भोजनं जेमनाहारौ भक्षणं खादनाशने ।पिपासा तृट् तृषोदन्या बुभुक्षा क्षुत्क्षुधा रुचिः ॥ ५४ ॥
अनुष्टुप्
genderक्लीneut.
भक्षणं जक्षणं जग्धिर्जेमनं जमनं घसिः ।आहारोऽभ्यवहारश्च भोजनं जवनं तथा ॥ ६३८ ॥
अनुष्टुप्
genderक्लीneut.
देहयात्रा विष्वणनं लेपन्यादौ च जेमनम् ।भुक्तिरभ्यवहारः स्याद् घसि प्रत्यवसानकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderक्लीneut.
विदंशस्तूपदंशः स्याद्भुक्तिजग्धी तु भोजनम् ।जेमनवल्भनगिलनप्रत्यवसानानि लेप आहारः ॥ १४४० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
जग्धिस्तु निघसो न्यादो लेपोऽप्यभ्यवहारवत् ।प्रत्यवसानमशनं भोजनं जेमनादने ॥ १०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderक्लीneut.