कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लेप

lepaपुं · masc.

In 9 kośas: 4 synonym verses, 9 as a nānārtha head word, 9 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.303 · p. 166
अस्त्रियां रोचकश्चापि तत्र लेपस्तु भोजनम् ।जेमनं स्वादनं जग्धिर्वल्लनं चापि जक्षणम् ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.175 · p. 94
स्नानं वसनं तिलको लेपो हारोऽञ्जनं काञ्ची ।नासामौक्तिककुण्डलनूपुरकुचकञ्चुकीमालाः ॥ १७५ ॥
उपगीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1440 · p. 174
विदंशस्तूपदंशः स्याद्भुक्तिजग्धी तु भोजनम् ।जेमनवल्भनगिलनप्रत्यवसानानि लेप आहारः ॥ १४४० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.102 · p. 167
जग्धिस्तु निघसो न्यादो लेपोऽप्यभ्यवहारवत् ।प्रत्यवसानमशनं भोजनं जेमनादने ॥ १०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास पार्धश्लोकः Dharaṇikośa 20.2.3 · p. 132
लेपः प्रलेपने जग्धौ सुधा लेपः प्रकीर्तितः ।स्वापः स्पर्शाज्ञता निद्रा स्वापश्चाज्ञानमात्रकम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.77 · p. 83
अपाद्ध्रासे व्यये शुद्धौ परिच्छेदे निरो मतौ ।उपात्समृद्धौ लेपे च समाधाने प्रतस्तु तौ ॥ ७७ ॥
अनुष्टुप्
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पान्ताः Koṣakalpataru 6.22.5 · p. 271
लेपः सुधालेपन-भोजनेषुतल्पस्तु न स्त्री शयनीयवाची ।प्राकारदारेषु नपुंसकेऽथ ।स्तूपोऽपि चैत्ये भुव उच्छ्रये च ॥ ५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.105 · p. 30
लेशे कालविशेषे च काष्ठाया द्विगुणेऽथ सः ।लिङ्गुर्गोत्रान्तरे मस्तौ चित्ते लेपस्तु भोजने ॥ १०५ ॥
अनुष्टुप्
meaningsभोजन
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.106 · p. 30
लिप्तिक्रियायां लोकस्तु स्थानविष्टपयोर्जने ।वर्गः समानां निवहे वज्रे शक्त्याह्वये बले ॥ १०६ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पान्ताः Śabdaratnāvalī 7.21.12 · p. 248
लेपः स्याद्भोजने लिप्तौ वयाच्छिद्रे च मेदसि ।वाष्पो ना स्रेऽप्युष्मयुते शष्पं ह्रासे तृणेऽपि च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1989 · p. 242
रागोऽलक्तेऽनुरागे च त्विषि वर्णान्तरेऽरुणे ।लेपने भोजने लेपो लोकः स्याद्भुवने जने ॥ १९८९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.279 · p. 187
शररोपणयो रोपो लेपो लेपनभोजने ।विटपः पल्लवे स्तम्बे षिड्गे मेदोबिले वा ॥ २७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.52 · p. 218
भोजने लेपने लेपो लोकः स्याद्विष्टपे जने ।वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥ ५२ ॥
अनुष्टुप्

लेप as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सुधावधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही । Amarakośa 3.3.196
  • धरणिकोश सुधाविधा विधौ प्रकारे च गजान्नवेतनर्धिषु । सुधा लेपोऽमृतं मूर्वा गङ्गेष्टिका स्नुही सुधा ॥ Dharaṇikośa 18.2.2
  • कोषकल्पतरु लिम्पतेआङ्परो नन्दतिर्हर्षे स्तुतौ स प्रतितः परः । अभेस्तु स परो व्याप्तौ प्रशंसायामपीष्यते । वठति पीवति मीवति तीवति स्थविमति प्रथितोऽत्र च नीवति । उपचिनोति तु *** लिम्पते कथय(?)गोमयति प्रणिदेग्धि च ॥ १६ ॥ Koṣakalpataru 3.5.16
  • नानार्थार्णवसंक्षेप लिप्तआत्ते तु भेद्यलिङ्गः स आदाने तु नपुंसकम् । लिप्तं तु भुक्ते दिग्धे च त्रिः क्ली भोजनलेपयोः ॥ ११४० ॥ Nānārthārṇavasaṃkṣepa 2.5.1140
  • शब्दरत्नावली सुधासुधा गङ्गेष्टकामूर्वीस्नुहीलेपामृतेषु च । Śabdaratnāvalī 7.19.21
  • शब्दरत्नावली द्रव्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
  • शब्दरत्नाकर अवलेपअवगाहो जलद्रोण्यामापगाद्यवमज्जने । गर्वे लेपेऽवलेपः स्यादनुतर्षः सुरातृषोः ॥ २२०२ ॥ Śabdaratnākara 4.1.2202
  • वैजयन्ती वर्णवर्णो नीलादिविप्राद्योः कीर्तौ गीतिक्रमे स्तुतौ । कुथे वृतेऽक्षरे त्वस्त्री प्रकारे लेपशोभयोः ॥ ७० ॥ Vaijayantī 6.5.70
  • वैजयन्ती अवलेपवह्निवातावपांगर्भौ गुह्यगूधाववस्करौ । कूर्मेशेऽब्धावकूपारोऽवलेपो लेपगर्वयोः ॥ १५ ॥ Vaijayantī 8.1.15