तूणा
tūṇāस्त्री · fem.In 3 kośas: 5 synonym verses.
तूणी तूणा च तूणीर उपासङ्गो निषङ्गकः ।चन्द्रहासस्त्वसिः पुंसि प्रवालः सायकोऽपि च ॥ २८० ॥
अनुष्टुप्
genderस्त्रीfem.
तूणा तृष्णा दक्षिणाऽपि धिषणा वीणया समा ।हृणा स्थूणामृताऽनन्ता गीता चिन्ता चिता समा ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderस्त्रीfem.
एते नपुंसकलिङ्गे भवन्ति । इदं श्वभ्रं गर्त्तः । इदं तृणं गृहच्छादनद्रव्यविशेषः । रणं युद्धम् । ऋणमुद्धारः अधमर्णश्च । एतान् शब्दान् स्त्रियां नियतं निश्चितं विद्यात् । इयं वीणा वाद्यविशेषः । तूणा इषुधिः । इयं घोणा नासिका । इयं घृणा दयाबुद्धिः । तुशब्दः पादपूरणे ।यदनान्तमकर्त्तरि तन्नपुंसके विद्ध्यनिः स्त्रियामेव ।यौ?भावेऽणापौ तौ पुंस्युक्तौ मन्युमृत्यू च ॥ २८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् ।उपासङ्गोऽपि खड्गे तु ऋष्टि-रिष्टी नरस्त्रियौ ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
genderस्त्रीfem.