कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पथिन्

pathinपुं · masc.

In 19 kośas: 19 synonym verses, 22 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.983 · p. 39
पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी ।अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः ॥ ९८३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.15
अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.260 · p. 32
अध्वा पन्थाः पद्धतिरेकपदी वर्त्म वर्तनी सरणिः ।अयनं पदवी मार्गः पद्या च निगद्यते निगमः ॥ २६० ॥
आर्या
genderपुंmasc.doubtful
बालप्रबोधिका Bālaprabodhikā · नत्कीर दशमोपदेशः Bālaprabodhikā 10.184 · p. 83
मार्गे तु स्याद्धावनकः पन्थानः पदवी सृतिः ।पाणिन्धमस्तदल्पे स्याच्चोरमार्गे तु कीलकः ।सुराङ्गः कृत्रिमे मार्गे गविनी … च ॥ १८४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
मृत्सामृत्स्ने स्थलस्थल्यावुष ऊषश्च दृश्यते ।वल्मीकं वल्मिकं च स्यात् पथः पन्थाश्च कीर्तितः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.93 · p. 18
मार्गोऽध्वा निगमः पन्था विवधः पुंसि बीवधः ।अपि द्वयोः स्यात्पदवी सरणिः सरणी सृतिः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.55 · p. 117
पन्थाः पत्सल-चारौ निगमो मार्गः पथोध्व-पद्वाजाः ।पद्या-पद्धति-पदवी-सृति-वर्तन्येकपद्यश्च ॥ ५५ ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.17 · p. 96
जनपद-कुन्द-कपर्दाबुद्बुदयुक्ता अगाध-गन्धौ च ।स्कन्धो मन्थाः पन्थादेवन उक्तश्च तत्तु[222b]ल्यः ॥ १७ ॥
metre not recognised
genderपुंmasc.doubtful
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.doubtful
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.doubtful
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 162 · p. 78
वर्त्माऽध्वा सरणिः पन्था मार्गः प्रचरसञ्चरौ ।त्रिमार्गनामगा गङ्गा घोषो गोमण्डलं व्रजः ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.265 · p. 37
आवेष्टको वृतिर्वाटो मार्गोऽध्वा सरणिः सृतिः ।निगमः पद्धतिः पद्या पन्था एकपदी पुनः ॥ २६५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.159 · p. 17
ध्वजश्च केतनं केतुः पताका चिह्नमेव च ।मार्गोऽध्वा निगमः पन्था पदवी वर्त्म पद्धतिः ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1685 · p. 271
पदविः पदवी पद्या पथः पन्थाश्च पद्धतिः ॥ १६८५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.23 · p. 47
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.31 · p. 220
पन्थाः पन्थान-पथी वर्त्मनिर्वर्त्म वर्तनिः ।वर्तनी पदवी तद्वत् पदविः, सत्पथे पुनः ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.400 · p. 53
अथ वर्त्मायनं पन्था मार्गोऽध्वा पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ ४०० ॥
अनुष्टुप्
genderपुंmasc.doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.18 · p. 32
क्रिमिशैलस्तु वल्मीकः शक्रमूर्धाऽथ सञ्चरः ।धरणः पिण्डलः सेतुः पन्थास्तु क्षुल्लमो वहः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.49 · p. 39
मार्गोऽध्वा पदवी पंथाः पद्या चैकपदी सृतिः ।सुपंथा अतिपंथाश्च सत्पथश्च शुभे पथि ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.

पथिन् as a meaning in nānārtha verses