कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किण

kiṇaपुं · masc.

In 10 kośas: 15 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.157 · p. 22
कण्डूः कण्डूयनं खर्जूः कण्डूयाथ क्षतं व्रणः ॥ ४६४ ॥अरुरीर्मं क्षणतुश्च रूढव्रणपदं किणः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.157 · p. 478
दूषणस्वर्णवृषणव्रणानां भूषणस्य च ।भाणत्रवरचूणानां किणतोरणयोरपि ॥ १५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 258
किणौ कक्षाधरेऽथाधोमन्दिरे समुदीरिते ।पृष्ठभागे मन्दिरयोरुक्ते जानु-कपालिके ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.6 · p. 311
व्रणसम्मार्जनं झाटः खाटिः शुष्कव्रणस्थलम् ।किणो रूढव्रणपदमथ नाडीव्रणः पुमान् ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.45 · p. 112
genderपुंक्लीm. n.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.129 · p. 117
विपादिका पदस्फोटो पिटकः स्फोटको गडुः ।पृष्ठग्रन्थिर्मतो गण्डो रूढं व्रणपदं किणः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.139 · p. 228
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.304 · p. 98
व्रणचिह्नं किणः प्रोक्तमस्त्रशस्त्रादिकस्य च ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.233 · p. 98
योन्यर्शः कन्दसंज्ञं स्यात् किणः सूक्ष्मव्रणेऽपि च ।अजीर्णेऽन्त्रलुमिर्वायुगण्डः स्यात् पललाशयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.238 · p. 98
पूयकं पूयमाख्यातं व्रणादिप्लाविते रजे ।खारी खाटिरर्बुदश्च किणो व्रणादिखाटिषु ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.14 · p. 51
योन्यर्शः कन्दसंज्ञः स्यात्किणः शुष्कव्रणोऽपि च ।अजीर्णे वायुगण्डोऽन्तर्वमिश्चपलताशयः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.221 · p. 101
वामेन दक्षिणांगुष्ठं वामं चान्येन पीडयेत् ।वेतालासनमित्येतदेकांगुष्ठग्रहात् किणः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.217 · p. 122
अरुः क्षतं ना क्षणितुर्व्रणोऽपीर्मोऽपि न स्त्रियौ ।किणो रूढं व्रणस्थाने तुमुलं रणसंकुलम् ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.18 · p. 196
धूलौ रेणुरपि द्वयोर्नरि पुनः स्यात्पर्पटाह्वौषधेसूक्ष्मेऽल्पे च परोपमोऽथ च किणो न स्त्री व्रणाङ्के घुणे ।
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.30 · p. 23
किणो रूढव्रणस्थाने तथा स्यादासनान्तरे ।लक्षणं चासनस्यास्य वैजयन्त्यां यथाभ्यधात् ॥ ३० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.32 · p. 23
वेतालासनमित्येतदेकाङ्गुष्ठग्रहात् किणः ।क्षुरस्तु कोकिलाक्षाख्यस्तम्बे गोक्षुरनाम्नि च ॥ ३२ ॥
अनुष्टुप्

किण as a meaning in nānārtha verses

  • कोषकल्पतरु खाटिसूक्ष्मैलायां कालमाने च लेशे संदेहे च स्यात्त्रुटिः स्त्री तु खाटिः । निन्द्यागारे स्यात्किणे प्रेतयाने । पोटा तु स्त्रीपुंसलिङ्गा च दासी ॥ २३ ॥ Koṣakalpataru 6.10.23
  • शब्दरत्नावली खाटिखटः प्रहारे भेदान्धकूपटङ्ककफेषु च । खाटिः किणे शवरथे भीषितेऽसद्ग्रहे स्त्रियाम् ॥ Śabdaratnāvalī 7.11.10