दारुहरिद्रा
dāruharidrāस्त्री · fem.In 10 kośas: 7 synonym verses, 13 as a meaning of another word.
शतमूली बहुसुताभीरूरिन्दीवरी वरी ॥ १०० ॥ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी ।अहेरुरथ पीतद्रुकालीयकहरिद्रवः ॥ १०१ ॥दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि ।
अनुष्टुप्
genderस्त्रीfem.
तोषिणी वर्जिनी बाला विकटान्ता तरङ्गिणी ।दार्व्यां दारुहरिद्रा स्यात् वेणौ यवफलः स्मृतः ॥ २५१ ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रा दारुहरिद्रान्या स्थिररागा पचंपचा ।कटंकटेरी पर्जन्या दार्वी कामवती च सा ॥ २१२ ॥
अनुष्टुप्
genderस्त्रीfem.
खदिरो रक्तसारः स्यात्सोमवल्कस्तु कामुकः ।अथ दारुहरिद्रा च हेमकान्ता निगद्यते ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
इन्दीवरी वरी ऋष्यप्रोक्ता ऋष्यगतापि च ।दार्वी दारुहरिद्रा स्याद् दारु दारुनिशा निशा ॥
अनुष्टुप्
genderस्त्रीfem.
दार्वीदारुहरिद्रे तु हेमकाष्ठा कटंकटा ।कटंकटेरी पर्जन्या कालेयकहरिद्रवौ ॥ ६०३ ॥
अनुष्टुप्
genderस्त्रीfem.
तोषण वर्णिनी बाला विटकान्ता तरंगिणी ।दार्व्यां दारुहरिद्रा स्यात् पीतदारुश्च पर्जनी ॥ २१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
genderस्त्रीfem.
दारुहरिद्रा as a meaning in nānārtha verses
- धरणिकोश मर्मरामर्मरा दारु हरिद्रा वस्त्रभेदे च मर्मरः । एकाग्रमेकतानाख्यमेकाग्रं स्यादनाकुलम् ॥ Dharaṇikośa 26.2.49
- नानार्थार्णवसंक्षेप दार्वीपुंस्यप्यन्ये दारु काष्ठे क्ली पुनर्देवदारुणि । दार्वी दारुहरिद्रायां स्त्री द्विजस्तु द्वयोर्भवेत् ॥ ५९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.593
- नानार्थार्णवसंक्षेप वरापथ्यागुञ्जाहरिद्रासु दूर्वादारुहरिद्रयोः । आस्फोताकण्टकार्योश्च वराथ स्याद्वरी इति ॥ ११५३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1153
- नानार्थार्णवसंक्षेप हरिद्रुतथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन । हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥ Nānārthārṇavasaṃkṣepa 3.2.248
- नानार्थार्णवसंक्षेप कालेयदार्वी दारुहरिद्रोक्ता काकाण्डस्तु पुमानयम् । कृष्णशिम्बौ नपि त्वेतत् काकस्याण्डे पुमान् पुनः ॥ ४४७ ॥ Nānārthārṇavasaṃkṣepa 4.447
- नानार्थार्णवसंक्षेप ?भवेद्दारुहरिद्रायामाढकीसंज्ञमृद्यपि । पण्डितस्तु द्वयोर्ज्ञेयः स्यान्मृगे सूकराकृतौ ॥ १०८३ ॥ Nānārthārṇavasaṃkṣepa 4.1083
- नानार्थार्णवसंक्षेप हरिद्रुतथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन । हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥ Nānārthārṇavasaṃkṣepa 6.248
- शिवकोष काष्ठाकाष्ठा दारुहरिद्रायां काष्ठं सामान्यदारुणि ॥ १४० ॥ Śivakoṣa 9.1.140
- शिवकोष दार्बीदार्बी दारुहरिद्रायां हरिद्रा देवदारुणोः । गोजिह्विकायां निम्बस्तु ह्रीवेरपुचुमर्दयोः ॥ ३१६ ॥ Śivakoṣa 18.1.316
- शिवकोष दार्वीमहानिम्बेऽपि जीवा स्याज्जीवन्तीवचयोरपि । दार्वी दारुहरिद्रायां गोजिह्वायामपि स्त्रियाम् ॥ ४९६ ॥ Śivakoṣa 24.1.496
- शब्दरत्नावली काष्ठाकण्ठो ध्वनौ सन्निधाने गले मदनभूरुहे । काष्ठा दारुहरिद्रायां कालमाने प्रकर्षके ॥ Śabdaratnāvalī 7.12.3
- शब्दरत्नावली दार्वीसमासे तु भवेत्पुंसि रोगभेदे च कुत्रचित् । दार्वी दारुहरिद्रायां स्त्रियां गोजिह्विकौषधौ ॥ Śabdaratnāvalī 7.29.10
- शब्दरत्नावली निशानाशः पलायने पुंसि निधनानुपलम्भयोः । निशा दारुहरिद्रायां स्त्री त्रियामाहरिद्रयोः ॥ Śabdaratnāvalī 7.30.8