कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पद्माकर

padmākaraपुं · masc.

In 14 kośas: 12 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1094 · p. 43
पद्माकरस्तडागः स्यात्कासारः सरसी सरः ॥ १०९४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.44
पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः ।
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.105 · p. 17
पद्माकरस्तटाकः स्यात्कासारः सरसी सरः ।स्वस्तिकः पुष्करः सिन्धुर्जलाशय इतीर्यते ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.135 · p. 358
स्यादस्त्रियां तलं तल्लं तटाकोऽस्त्री तडागवत् ।पद्माकरः पुमान् क्लीबे सरसं च सरः पुनः ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.48 · p. 104
अखातश्च तडागोऽस्त्री तटाकः कूलमन्तिमे ।पद्माकरश्चाथ पुंसि कासारः स्यात्तुलाङ्गकः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.374 · p. 50
देवखाते त्वखातं स्यात्खातकं पुष्करिण्यपि ।तडागः सरसी पद्माकरः कासार एव च ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.294 · p. 21
पद्माकरः पद्मखनिस्तडागः पुष्कराश्रयः ।कुमुद्वती कुमुदिनी कुमुच्चन्द्रप्र[प]योजिनी? ॥ २९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.12 · p. 41
पद्माकरो जलासारः पुष्करिण्यम्बुशेवधिः ।श्रीपत्रं नलिनं पद्मं पुटिनी नलिनीति च ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.126 · p. 14
सरस्तडागः कासारः सरसी च सरोवरः ।पद्माकरः स एव स्याद्वसन्तः पल्वलं लघु ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1913 · p. 314
पद्माकरस्तडागश्च कासारः सरसी महान् ।सरः ख्यातस्तटाकश्च तडाकोऽपि हि कथ्यते ॥ १९१३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.105 · p. 43
पद्माकरस्तु कासारस्तडागोऽस्री सरोवरः ।तडाकश्च तटाकश्च सरसं सरसी सरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.355 · p. 47
प्रसन्नमच्छं कलुषमनच्छं चाविलं त्रिषु ।कासारः सरसी सरः कमलिनी पद्माकरो दीर्घिकावाणी द्वौ तु महाजलौ हृदनदौ क्षुद्रा सरित्कृत्रिमा ॥ ३५५ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.

पद्माकर as a meaning in nānārtha verses

  • धरणिकोश अब्जिनीशङ्खिनी कुचुचूका स्त्री स्त्रीभेदे चोरपुष्प्यपि । अब्जिनी ? बिसिनीत्यादि पद्मे पद्माकरेऽपि च ॥ Dharaṇikośa 19.2.20
  • वैजयन्ती नलिनीचापे तृणत्वे तृणता दारिद्येऽपि च दुर्गतिः । पद्माकरेऽब्जे नलिनी स्वास्थ्ये नाशे च निर्वृतिः ॥ १० ॥ Vaijayantī 7.2.10