कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नलिन

nalinaक्ली · neut.

In 20 kośas: 23 synonym verses, 4 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.79 · p. 45
कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ ११६० ॥परं शतसहस्राभ्यां पत्त्रं राजीवपुष्करे ।बिसप्रसूनं नालीकं तामरसं महोत्पलम् ॥ ११६१ ॥तज्जलात्सरसः पङ्कात्परे रुड्रुहजन्मजाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.62
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ।पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.679 · p. 77
सहस्रपत्त्रं शत्रपत्त्रमम्बुजंकुशेशयं तामरसं सरोरुहम् ।विसप्रसूनं कमलं महोत्पलं,सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥
वंशस्थम्metre not read in every linenearly upajati 12: pāda 1, syllable 6 श (wrong syllable)
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.172 · p. 82
पद्मन्तु नलिनं पद्मं पङ्कजं बिसजं मतम् ।सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.117 · p. 18
श्रीपत्रं नलिनं पद्ममरविन्दं महोत्पलम् ।पद्मालयं पद्मभवं जलजं च कुशेशयम् ॥ ११७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.143 · p. 359
इन्दीवरं तु नीलाब्जमिन्दिरावरमित्यपि ।कावारमीषत् श्वेतं तु नलिनं स्यादथ स्त्रियाम् ॥ १४३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.152 · p. 360
नाली नाला नालमपि नालः केसरकेसरौ ।पुंसि क्लीबेऽथ नालीकं नालिकं नलिनं नलम् ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.164 · p. 479
यौवनालग्ननलिनप्रस्फोटनपिधानयोः ।पुलिनाशनयोस्तद्वदुदपानसमानयोः ॥ १६४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.9 · p. 111
स्त्री नोत्पलं तामरसं च सारसंबिसप्रसूनं सरसीरुहं च ।प्रोक्तं तु पद्मं नलिनं च न स्त्रियांश्रीवासमत्राम्बुजमस्त्रियां च ॥ ९ ॥
upajati mixed
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.50 · p. 113
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.328 · p. 177
कमले नलिनं पद्ममरविन्दं कुशेशयम् ।परं शतसहस्त्राभ्यां पत्रं राजीवपुष्करे ॥ ३२८ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 20 · p. 10
परिषत्कर्दमः पङ्कः तज्जम् तामरसं विदुः ।कमलं नलिनं पदम् सरोजं सरसीरुहम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.80 · p. 62
उशीरं वीरुणीमूले कमलं नलिनं कजम् ।पुण्डरीकं च --------पुष्करं पङ्कजं समे ॥ ८० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.144 · p. 229
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.83 · p. 134
नलिन्यां बिसिनी प्रोक्ता कुमुदिन्यां कुमुद्वती ।पद्मे महोत्पलं जालं कमलं नलिनं तथा ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.295 · p. 21
पङ्कजं कमलं पद्मं नलिनं सरसीरुहम् ।पङ्केरुहं तामरसं सारसं पुष्करं कजम् ॥ २९५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.12 · p. 41
पद्माकरो जलासारः पुष्करिण्यम्बुशेवधिः ।श्रीपत्रं नलिनं पद्मं पुटिनी नलिनीति च ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.128 · p. 14
वि[बि]सप्रसूनं नलिनं शतपत्रं सरोरुहम् ।सहस्रपत्रं जलजं सरोजं सरसीरुहम् ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1858 · p. 303
पिप्पलं पिष्पलं चैव नलिनं मलिनं तथा ।पातालं पावनं चापि कृपीटं कम्बलं पुनः ॥ १८५८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2090 · p. 346
कमलमऽरविन्दं च नालीकं नलिनं पुनः ॥ २०९० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.134 · p. 45
विसप्रसूनं श्रीवासं श्रीपर्णमिन्दिरालयम् ।अरविन्दं जलेजातं नलिनञ्च महोत्पलम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.357 · p. 48
निपानमवखातस्तु स्यादुत्कीर्णश्चुरी स्त्रियाम् ।पद्मोऽस्त्री शतपत्रं पङ्कजमरविन्दमम्बुजं नलिनम् ॥ ३५७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.38 · p. 157
सहस्रपत्रं नलिनं शतपत्रं कुशेशयम् ।बिसप्रसूनं राजीवं निर्लेपं बिसनाभिजम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.98 · p. 261
न स्त्री वारिजपद्मयोश्च नलिनं मालाकृतस्तु स्त्रियांछन्दोभिद्यपि मालिनी सुरसरिद्गौर्योश्च चम्पापुरि ।पुंनागे तु सिते वधूभिदि तथा स्याच्चोरपुष्प्यामपिस्याच्छङ्खिन्यथ पद्मिनी च वनिताभेदे सरःपद्मयोः ।हस्तिन्यां करिणी स्त्रियामथ भवे द्विप्रस्त्रियां भट्टिनीनाट्योक्तौ नृपतेः स्त्रियामपि वृषाक्रान्ता तु गौः संधिनी ।याकालेऽपि लसत्पयास्त्रिवृति तु स्याद्रेचनी शेवनीदन्त्योश्चाथ*सूरणे नरि मुसल्यां तु स्मृता योषिति ॥ ९८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.990 · p. 134
हंसे तु द्वेऽथ नलिनं नलिकायां नपुंसकम् ।पद्मे तु पुंस्यप्येकेषामन्येषां तु स्त्रियामपि ॥ ९९० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र नत्रिः Śivakoṣa 16.1.255 · p. 23
धमनी निशि नट्यां च धाविनीति कुलीनिशोः ।पृष्टिपर्ण्यां च नलिनं नडे नाड्यां सरोरुहे ॥ २५५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.57 · p. 238
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)

नलिन as a meaning in nānārtha verses

  • कोषकल्पतरु नलउत्सेधशस्त्रीच्छदयोश्च खण्डे द्रव्ये च षण्ढेऽथ नलो नृपाले । यमे कपौ पोटगले स्त्रियां तु मनःशिलायां नलिने द्वयोनम् ॥ ५१ ॥ Koṣakalpataru 6.28.51
  • शिवकोष नलनलिनेऽथ नली नट्यां कुनट्यामपि योषिति । नालं नाला पद्मदण्डे नाली शाककलम्बके ॥ ४४३ ॥ Śivakoṣa 23.1.443
  • शब्दरत्नाकर नालीकनालीकः सायके पुंसि नलिने तु नपुंसके । निवहो वायुभेदेऽपि नरको निरयेऽसुरे ॥ २११७ ॥ Śabdaratnākara 4.1.2117