सरस्
sarasक्ली · neut.In 19 kośas: 21 synonym verses, 8 as a nānārtha head word, 8 as a meaning of another word.
पद्माकरस्तडागः स्यात्कासारः सरसी सरः ॥ १०९४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
genderक्लीneut.
वेशन्तः पल्वलं तल्लं कासारः सरसी सरः ।आखातो देवखातः स्यात्खाता पुष्करिणी भवेत् ॥ ६७५ ॥
अनुष्टुप्
genderक्लीneut.
स्थाघमस्थाघमस्ताघमप्यगाधे प्रयुज्यते ।सरसी तु सरश्चाहुः कुमुच्च कुमुदं समे ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
सरः सरा सरी चैवं सरिश्च स्याद्दरी दरिः ।कन्दरः कन्दरी चैवं कन्दरा च निगद्यते ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
पद्माकरस्तटाकः स्यात्कासारः सरसी सरः ।स्वस्तिकः पुष्करः सिन्धुर्जलाशय इतीर्यते ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
सरः पुंस्यथ सामुद्रं मृगादिवृष्टिजे जले ।आश्विने जलदैर्मुक्तमम्बु स्वातिविशाखयोः ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
genderपुंmasc.
स्यादस्त्रियां तलं तल्लं तटाकोऽस्त्री तडागवत् ।पद्माकरः पुमान् क्लीबे सरसं च सरः पुनः ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
गोलावडिशयोश्छर्दिजम्ब्वलावूषसामपि ।गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
वार्जीवनं जीवनीयं दगर्णे(?) सर्वतोमुखम् ।गवं(?)सरः कर्बुरं च पवित्रं पूतमङ्कुरः ।कम्बलं तामरं कृत्स्नं क्षणदं स्यन्दनं मधु ।क्षरं कंत्वलिगं * * न स्त्री कोडं(?)रसं विषम् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सरं सरश्च क्लीबे द्वे सरसी तु महत्सरः ।वेशन्त-पल्वलावस्त्री तल्लः स्वल्पसरोर्थकः ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कादम्बरमसूरौ तु त्वक्षीरं जम्बुना सह ।रोदः सदः सरो दामोषस्तयट्प्रमुखा इति ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
निर्झरो झरणं शैलप्रस्रवोऽम्बुकणाकरः ।सरोवरं पल्वलकं कासारः सरसी सरः ॥ २९३ ॥
अनुष्टुप्
genderक्लीneut.
कुल्या तु कृत्रिमनदी मुखजा सूक्ष्मवाहिनी ।केदारगामिनी चाथ कासारः सरसी सरः ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
सरस्तडागः कासारः सरसी च सरोवरः ।पद्माकरः स एव स्याद्वसन्तः पल्वलं लघु ॥ १२६ ॥
अनुष्टुप्
genderक्लीneut.
पद्माकरस्तडागश्च कासारः सरसी महान् ।सरः ख्यातस्तटाकश्च तडाकोऽपि हि कथ्यते ॥ १९१३ ॥
अनुष्टुप्
genderक्लीneut.
पद्माकरस्तु कासारस्तडागोऽस्री सरोवरः ।तडाकश्च तटाकश्च सरसं सरसी सरः ॥
अनुष्टुप्
genderक्लीneut.
कासारे तु तडागः स्यात् तडाकश्च तटाकवत् ।सरः-सरस्यौ स्थानकेऽलवालं चालवालयुक् ॥ ११० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स्था (wrong syllable)
genderक्लीneut.
प्रसन्नमच्छं कलुषमनच्छं चाविलं त्रिषु ।कासारः सरसी सरः कमलिनी पद्माकरो दीर्घिकावाणी द्वौ तु महाजलौ हृदनदौ क्षुद्रा सरित्कृत्रिमा ॥ ३५५ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
आधारस्तु तटाकोऽस्त्री कासारः सरसी सरः ।आवाहो दीर्घिका वापी वेशन्तरत्वल्पपल्वले ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
स[90a]रस्तडागे न नरे जलेऽन्त्ये-ऽथोषः प्रभाते श्रुतिरन्ध्रके ज्ञैः ।नपुंसि संध्यार्थकमङ्गना तुस्याद्देवतायामथ खे नभः स्यात् ॥ ७ ॥
उपजातिःmetre not read in every line
doubtful
परवल्लिङ्गतां विद्यादथ स्तनभवे त्रिषु ।स्तन्यं क्षीरे तु तत् क्लीबं सरस्तु नरि मारुते ॥ १४६० ॥
अनुष्टुप्
meaningsमारुत
क्षीरे तु क्ली द्वयोस्त्वेष निषादशनकीसुते ।मर्त्यजात्यन्तरे त्रिस्तु स्थिरस्य प्रतियोगिनि ॥ १४६१ ॥
अनुष्टुप्
doubtful
स(रः?राः) सान्तष्टान्तमन्ये वायौ मेघे द्रुमान्तरे ।सरीसृपपतत्र्योस्तु द्वे संश्चत् तु नृलिङ्गकः ॥ १४७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ।शोचिः शोकांशुपैंगल्यशुद्धत्वेषु सरोऽप्सु च ॥ ३४ ॥
अनुष्टुप्
meaningsअप्
सरस् as a meaning in nānārtha verses
- धरणिकोश मानसविकासः स्फुटने व्यक्ते मानसं हृदयं सरः । राक्षसी गन्धद्रव्येऽपि सुरसा चौषधावपि ॥ Dharaṇikośa 31.1.8
- कोषकल्पतरु पद्मिनीन स्त्री वारिजपद्मयोश्च नलिनं मालाकृतस्तु स्त्रियां छन्दोभिद्यपि मालिनी सुरसरिद्गौर्योश्च चम्पापुरि । पुंनागे तु सिते वधूभिदि तथा स्याच्चोरपुष्प्यामपि स्याच्छङ्खिन्यथ पद्मिनी च वनिताभेदे सरःपद्मयोः । हस्तिन्यां करिणी स्त्रियामथ भवे द्विप्रस्त्रियां भट्टिनी नाट्योक्तौ नृपतेः स्त्रियामपि वृषाक्रान्ता तु गौः संधिनी । याकालेऽपि लसत्पयास्त्रिवृति तु स्याद्रेचनी शेवनी दन्त्योश्चाथ*सूरणे नरि मुसल्यां तु स्मृता योषिति ॥ ९८ ॥ Koṣakalpataru 6.21.98
- नानार्थार्णवसंक्षेप षण्डालीशिञ्जिनी नूपुरे मौर्व्यां शुश्रूषा तु कथानके । उपास्तौ श्रोतुमिच्छायां षण्डाली तु सरस्यपि ॥ ९५ ॥ Nānārthārṇavasaṃkṣepa 3.1.95
- नानार्थार्णवसंक्षेप नलिनीनलिनी तु स्त्रियामेव पद्मस्तम्बे सरस्यपि । रभसस्त्वपठीद्व्योमनिम्नगायां च ना पुनः ॥ ९९१ ॥ Nānārthārṇavasaṃkṣepa 4.991
- नानार्थार्णवसंक्षेप सरस्वत्स्यात् सरस्वत्सरस्यत्योरथ सांयात्रिकं नपि । प्रभाते पोतवणिजि ना (तु ? थ) साव्वँत्सरस्त्रिषु ॥ ६६१ ॥ Nānārthārṇavasaṃkṣepa 6.661
- शब्दरत्नावली पद्मिनीतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली मानसमहः क्लीबमुत्सवे स्यात्तेजस्यपि नपुंसकम् । मानसं चित्तसरसो रभसं हर्षवेगयोः ॥ Śabdaratnāvalī 7.32.28
- त्रिकाण्डशेष मानसयोक्त्रे च वसुराख्याने स्वान्ते सरसि मानसम् । माश्चन्द्रमासयोः पुंसि खर्जूरेक्ष्वोर्महारसः ॥ ४४८ ॥ Trikāṇḍaśeṣa 3.3.448