कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समय

samayaपुं · masc.

In 17 kośas: 30 synonym verses, 9 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.126 · p. 9
स्यात्कालः समयो दिष्टानेहसौ सर्वमूषकः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.242 · p. 14
राद्धसिद्धकृतेभ्योऽन्त आप्तोप्तिः समयागमौ ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1509 · p. 57
विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः ।वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.1
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः ।प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.10 · p. 2
ऊहस्तर्कोऽनुमानोक्तिर्मीमांसा स्याद्विचारणा ।स्मृताः कृतान्तराद्धान्तसिद्धान्तसमयाः समाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.1 · p. 405
कालोऽपष्ठुर्जहोदिष्टोऽनेहाः पीथो मतिस्तिथः ।आमतिः समयः पीयुरथ वास्रस्तु वासरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.150 · p. 433
आगमः समयस्तुल्यावाप्तोक्तिरपि च स्त्रियाम् ।कृतान्ता पुंस्यथ गिरा चोद्यगीर्भणितिः स्त्रियाम् ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.172 · p. 480
संगमक्षामयोर्यूपतूर्ययोः समयस्य च ।कम्बलिबाह्यमैरेयजन्यानां प्रचयस्य च ॥ १७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.1 · p. 39
कालोऽमतिश्चायतिरप्यनेहास वत्सरात्मा समयो भवन्तः ।पारुश्च पीयुर्जहकोऽपि जिव्रि-र्यातुश्च दिष्टो लग्नः सर्वमुट् च ॥ १ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 6 ल (wrong syllable); pāda 2, syllable 7 ग्नः (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.34 · p. 69
उपोद्घात उदाहारः प्रकृतौपयिकं वचः ।समयः शपथः पुंसि शपनं तु नपुंसके ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.6 · p. 94
गुल्फ-गुच्छ-समय-प्लव-वर्ष-मन्थ-कर्दम-मृदङ्गमुखा[221b]नाम् ।वंश-वेश-मुकुर-क्षितिनिम्ब-दीप-बोल-चरणप्रमुखानाम् ॥ ६ ॥
स्वागताmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.58 · p. 114
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.122 · p. 20
पुष्पदन्तौ पुष्पवन्तौ चन्द्रसूर्यौ समोक्तितः ।कालोऽनेहा दिष्टसर्वमूषकौ समयोऽपि च ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.171 · p. 26
वाक्यं पदसमूहः स्यात्सुप्तिङन्तं पदं मतम् ।आगमाप्तोक्तिराद्धन्ताः सिद्धान्तसमयावपि ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.383 · p. 99
क्षणः समय इत्येवमुपोद्धातोऽप्युपक्रमः ।अभ्यादानमथारम्भः प्रयोगः प्रक्रमः समः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.152 · p. 230
समयकविये पारि[10]हार्यः कम्बलवाह्यकः ।संसारसीरशृङ्गारनेत्रवक्त्राणि गह्वरम् ॥ १५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.132 · p. 18
कालो दिष्टोऽप्यनेहापि समयः सम इत्यपि ।घस्रो दिनः समा वारोऽहः क्लीबे तिथिरित्यपि ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.92 · p. 28
प्रस्तावोऽवसरो वेला वारश्च समयः क्षणः ।आगोऽपराधो मन्तुश्च व्यलीकं विप्रियाहिते ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.138 · p. 33
सिद्धान्तागमराद्धान्तकृतान्ताः प्रोक्तयः श्रुतम् ।समयः प्रवचनं सूत्रं ग्रन्थः शास्त्रं च पुस्तकम् ॥ १३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.120 · p. 18
कालो दिष्टोऽप्यनेहाः स्यात् समयः सर्वमूषकः ।कालो द्विधाऽवसर्पिण्युत्सर्पिणीकालभेदतः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.344 · p. 45
आगमश्चापि सिद्धान्तः राद्धान्तः समयस्तथा ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2748 · p. 447
समयोऽवसरो वारो वेला च प्रक्रमः क्षणः ।प्रस्तावोऽन्तरमित्यष्टौ क्षणनामानि सन्ति वै ॥ २७४८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.245 · p. 18
मृगतृष्णा मृगतृषा मृगतृट् स्यान्मरीचिका ।कालः स्वयम्भूः समयस्त्वनेहा दिष्ट इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.230 · p. 32
कालस्तु समयोऽनेहा दिष्टः सूक्ष्मस्तु स त्रुटिः ।अष्टौ तु ता निमेषस्तौ लिप्तिका स्यादमूर्नव ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.272 · p. 37
चित्तविभ्रम उन्मादो मिथ्याज्ञानं मतिभ्रमः ।अथ सिद्धान्तराद्धन्तकृतान्तसमयाः समाः ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.273 · p. 37
स्याद्द्रोहचिन्ता व्यापादः संकेतसमयौ समौ ।धियो गुणास्तु शुश्रूषा श्रवणं ग्रहणं धृतिः ॥ २७३ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.50 · p. 39
भृगुः श्वेतस्तथा हंसो हृदो दक्षिणपादगः ।समयः सामगः शुक्रः सङ्गतिः सा-र्णकः शशी ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.47 · p. 45
शुक्ल-धातू भृगुर्हंसः सामगः सत्यसङ्गतिः ।मत्यानन्दोऽथ दीप्तास्यः समयः षा-र्णकः स्मृतः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
दक्षप्रियो भृगुः शुक्रो हंसः समय-सामगौ ।हृदो दक्षिणपादस्थः श्वेता शक्तिर्निशाकरः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.26 · p. 90
प्रज्ञप्तिः परिभाषाशैलीसङ्केतसमयकाराश्च ।प्रतिवाणी प्रतिवचनं समुदाचारस्त्वभिप्रायः ॥ २६ ॥
आर्या
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.149
समयाः शपथाचारकालसिद्धान्तसंविदः ॥ १४९ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.869 · p. 99
कालसङ्केतकाचारसिद्धान्ताः समयाः समाः ॥ ८६९ ॥
धरणिकोश Dharaṇikośa · धरणिदास यश्लोकः Dharaṇikośa 25.3.23 · p. 161
समयः शपथः कालः सिद्धान्ताचारयोरपि ।संगते च क्रियाकारे समयो वारणी मता ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.62 · p. 295
आचारे शपथे मतौ च समयः सिद्धान्तनिर्देशयोःभाषायां कृतिकारके निगदितः सङ्केतवाची तथा ।काले योषिति [40a]नाथ लक्षगृहयोरेकार्थमाजिव्रजेस्यादेकीकरणे च संहतिमतां तद्वत्परात्मन्यपि ॥ ६२ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1871 · p. 210
सर्ववेदिन्यथो पुंसि समयो नपि चापरे ।सङ्केताचारसिद्धान्तकालेषु शपथे तथा ॥ १८७१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1872 · p. 210
क्रियाकारे चाजयस्तु ब्रूते निर्देशसम्पदोः ।भाषायां च वयं त्वेनं ब्रूमहे सङ्गमे नरि ॥ १८७२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.51 · p. 262
सन्नयः समवाये ना पृष्ठस्थायिबलेऽपि च ।समयश्च क्रियाकाले निर्देशे भावकालयोः ॥सङ्केतशपथाचारसिद्धान्तधिषणासु च ।सरण्युर्ज्वलने पुंसि वारिवाहे समीरणे ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.82 · p. 245
सन्नयः समवाये च पृष्ठस्थायिबलेऽपि च ।समयस्तु क्रियाकारे संकेते चरिते सताम् ॥ ८२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.83 · p. 245
सिद्धान्ते शपथे काले स्वाध्यायो जपवेदयोः ।सारसो विहगे चन्द्रे हिमारिः पावके रवौ ॥ ८३ ॥
अनुष्टुप्
doubtful

समय as a meaning in nānārtha verses