शिखर
śikharaक्ली · neut.In 19 kośas: 35 synonym verses, 8 as a nānārtha head word, 11 as a meaning of another word.
शृङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः ॥ १०३२ ॥
अनुष्टुप्
genderक्लीneut.
शिरोनामाग्रं शिखरं मूलं बुध्नोंह्रि नाम च ।
अनुष्टुप्
genderक्लीneut.
कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः ।
अनुष्टुप्
genderपुंक्लीm. n.
नितम्बः कटको ज्ञेयः सानु प्रस्थं तटं भृगुः ।शृङ्गं च शिखरं कूटं निर्झरः प्रस्रवोऽम्भसाम् ॥ १६६ ॥
अनुष्टुप्
genderक्लीneut.
अवाग्भागो भवेद्वुध्नः प्राग्रं तु शिखिरं शिरः ।विस्तारो विटपः प्रोक्त आरोहस्तु समुच्छ्रयः ॥ १८१ ॥
अनुष्टुप्
genderक्लीneut.doubtful
ककीलस्तु च कुक्कीलो गोत्रो गोत्रघरोपि च ।कूटस्तु शिखरं शृङ्गं प्रपातस्तु तटो भृगुः ॥ १८६ ॥
अनुष्टुप्
genderक्लीneut.
लोकालोकश्चक्रवालश्चित्रकूटादयः परे ।कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
उद्धर्षणोल्लुकसने रोमहर्षणमित्यपि ।शिखरं पुंसि च क्लीबे पुलश्चाप्यथ कल्लता ॥ ११० ॥
अनुष्टुप्
genderपुंक्लीm. n.
गोमयाव्ययकुल्यानां परिहार्यस्य चैव हि ।कचियक्षत्रशिखरावराणां कूवरस्य च ॥ १७४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निःपीड्य तिष्ठत्यङ्गुष्ठो मध्यमां मुष्टिकाभिधः ।अयमूर्ध्वीकृताङ्गुष्ठः शिखरो जायते करः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
शैलाग्रं शृङ्ग-शिखर-कूटानि त्री[13b]णि न स्त्रियाम् ।कूटनिः(?) स्त्री नितम्बोऽद्रेर्मेखला कटकोऽस्त्रियाम् ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
शिखरोऽस्त्री तस्य खण्डं वैडूर्यं वालवायजम् ।प्रवालोऽस्त्री विद्रुमो ना रक्ताङ्गो हेमकन्दलः ॥ ७५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्तम्बोऽप्यथ शिरोऽग्रं स्यात्तस्मिञ्छिखरमस्त्रियाम् ।बुध्नोऽङ्घ्रिनामा मूलोऽस्त्रीत्वचा-त्वक्-त्वचयः स्त्रियः ॥ २१ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
विदलं दाडिमकणः शिखरं संपचेलिमः ।कपित्थस्तु कपि(गि?)त्थः स्याद्दधित्थो रदहर्षणः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
लवं लवङ्गं भृङ्गारं शि(शे?)खरं वारिसंभवम् ।श्रीसंज्ञं देवकुसुमं दिव्यं चन्दनपुष्पकम् ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
वलयमलयपूयारण्यसंख्यं हिरण्यंप्रमयसमयसाया जन्यवत्पारिहार्यम् ।शरशिशिरतुषारक्षीरनीहारवार-प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥
मालिनी
genderपुंक्लीm. n.
एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः ।भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् ।विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
कोलं कोषफलं कोरं मारीचं द्वीपमित्यपि ।लवङ्गे शिखरं दिव्यं भृङ्गारं वारिजं लवम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
पद्मरागे रविमणिः कुरुविन्दं तु कोरकम् ।पक्वदाडिमबीजाभं माणिक्यं शिखरं मतम् ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
तटे भृगुः प्रपातोऽथ शिखरे शृङ्गकुटके ।नितम्बमेखले भूध्रमध्ये च कटकस्तथा ॥ ३१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
genderक्लीneut.
सारो मज्जा पुमान्स्थाणुः शङ्कुर्ध्रुवक इत्यपि ।अंह्रिर्बुध्नः पुमान्मूले शिखरेऽग्रं शिरोऽपि च ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
शैलाग्रं शिखरं प्रस्थः स्रुः शिलोच्चयमस्तकम् ।क्ष्माभृन्नितम्बः कटको गण्डशैलाः च्युतोपलाः ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गं च शिखरं कूटं त्रीणि नामानि सन्ति वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
genderक्लीneut.
शिरोऽग्रं शिखरं शिरोनाम वृक्षोर्ध्वभागके ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable); pāda 4, syllable 3 स्त (wrong syllable)
genderक्लीneut.
स्फटिकं स्फाटकञ्चापि स्फाटिकमपि कुत्रचित् ।कूटोऽस्त्रियाञ्च शिखरं शृङ्गं शैलाग्रदेशके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 टि (wrong syllable)
genderक्लीneut.
अग्रशिरः शिरश्चेति शिखरं पुंनपुंसकम् ।मूलं स्कन्धः त्वङ्घ्रिरङ्घि ब्रध्नः स्याद्वुध्न इत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
genderपुंक्लीm. n.
पिशुनं शिखरं धीरं वरं लोहितचन्दनम् ।काश्मीरजन्म काश्मीरं खलमग्निशिखं रजम् ॥
अनुष्टुप्
genderक्लीneut.
कूटोऽस्त्री शृङ्गशिखरे प्रपातस्तु भृगुः समौ ।तटं त्रिषु नितम्बः स्नुः सानुप्रस्थे तु पुंसि वा ॥ ४११ ॥
अनुष्टुप्
genderक्लीneut.
बुध्नाङ्घ्री मूलनेत्रे च शिखराग्रे शिखा स्त्रियाम् ।त्वक्त्वचाच(छ?)ल्लयश्चोलो वल्कं वल्कलमस्त्रियाम् ॥ ४४४ ॥
अनुष्टुप्
genderक्लीneut.
हिरण्यनाभमैनाकसुनाभा हिमवत्सुते ।शैलाग्रे शिखरं शृङ्गं दन्तः प्राग्भारमित्यापि ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderक्लीneut.
गोमयकुमुदबिम्बशङ्खाश्रमशैलसुवर्णतोरणाः ।नूपुरशिखरतूर्यनिर्य्यासगृहाङ्कुशबर्हिपल्लवाः ॥ ९ ॥
metre not recognised
genderपुंक्लीm. n.
कूटोऽस्त्री शिखरं शृंगं नितंबः कटकोऽस्त्रियाम् ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला दृषत् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
स्कन्धः प्रघाणोऽथ शिखा शाखाथ शिखरं शिरः ।स्कन्धशाखा तु शाला स्यात् प्रवालः पल्लवांकुरः ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शिखरं किञ्चिदुद्वस्त्रेऽप्यग्रे पर्वतवृक्षयोः ।पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ॥
अनुष्टुप्
माणिक्यखण्डेऽपि सुदाडिमाभेऽथो विष्टरः पुंसि महीरुहे स्यात् ।अस्त्र्यासने स्यादपि दर्भमुष्टौमूर्खे शठे स्याद्वठरश्च वस्त्रे ॥ ९२ ॥
इन्द्रवज्रा
doubtful
शिखरोऽस्त्री गिरेः शृङ्गे वृक्षाग्रे रभसः पुनः ।पक्वदाडिमबीजाभमाणिक्यशकलेऽभ्यधात् ॥ १८२७ ॥
अनुष्टुप्
पुलकेऽपि स एवाह भेद्यलिङ्गं तु बोधत ।वर्तुले यत् त्विदं प्रोक्तं कैश्चिच्छोभनवाचकः ॥ १८२८ ॥
अनुष्टुप्
doubtful
पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ।शुक्रं रेतोक्षिरुक्शुक्रो ना काव्यज्यैष्ठवह्निषु ॥ ३७६ ॥
अनुष्टुप्
meaningsपक्वदाडिमबीजाभमाणिक्यशकल
doubtful
शिखर as a meaning in nānārtha verses
- कोषकल्पतरु शृङ्गतथानुमाने शिवमूर्तिभेदे दृगिन्द्रिये शेपसि चामनन्ति । शृङ्गं प्रधाने शिखरे च चिह्ने क्रीडाम्बुयन्त्रेऽपि विषाणके च ॥ ३ ॥ Koṣakalpataru 6.3.3
- कोषकल्पतरु सानुसानुस्तु न स्त्री शिखरे वने च वातावलावध्वनि पल्लवे च । बुधेऽन्यवद्रश्मिदिवाकरौ तु भानू पुमांसा[12a]वथ भेद्यबद्धौ ॥ ३ ॥ Koṣakalpataru 6.21.3
- नानार्थार्णवसंक्षेप ककुभ्कम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 2.1.22
- नानार्थार्णवसंक्षेप शिरस्जलमुस्तेऽटवेर्बिन्दोः सिध्मादौ देहवैकृते । गणस्याब्धेश्च सङ्ख्यायां शिरसः शिखरे तरोः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.5.5
- परमानन्दीयनाममाला कदम्बकदम्बो निकुरम्बे द्रुविशेषे शिखरे तथा । कीकसो वानरे कीटे कश्मलं पङ्कपापयोः । ॥ १२४ ॥ Paramānandīyanāmamālā 5.7.124
- शिवकोष वारिसम्भववारिसम्भवमम्भोजे श्रीखण्डे शिखरेऽपि च ॥ ५११ ॥ Śivakoṣa 24.4.511
- शब्दरत्नावली शृङ्गशुङ्गी स्त्रियान्तु पर्कय्यां वटाम्रातकयोरपि । शृङ्गं प्रधाने चिह्ने च शिखरे जलयन्त्रके ॥ Śabdaratnāvalī 7.3.27
- शब्दरत्नावली सटाव्युष्टं त्रिषूषिते कल्ये समृद्धिफलयोः स्त्रियाम् । सटा जटाकेशरयोः शिखायां शिखरेऽपि च ॥ Śabdaratnāvalī 7.11.29
- शब्दरत्नावली चूडाचण्डा धनहरी शङ्खपुष्प्योश्च कोपन त्रिषु । चूडा शिखायां वडभौ शिखर करभूषणे ॥ Śabdaratnāvalī 7.13.14
- शब्दरत्नावली दशनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- वैजयन्ती शिरस्रूप्यस्यांजनभेदे स्युरटव्यां जलमुस्तके । षण्डाः केशस्य बर्हिष्ठे शिरसः शिखरे तरोः ॥ ११ ॥ Vaijayantī 8.6.11