कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रेखा

rekhāस्त्री · fem.

In 13 kośas: 10 synonym verses, 2 as a nānārtha head word, 9 as a meaning of another word.

श्रेणिश्रेण्यौ पंक्तिपंक्त्यौ राजिराज्यौ समे मते ।रेखा लेखा भवेद्वृक्षे शालसालावुदीरितौ ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.9 · p. 249
रेखा लेखा च पङ्क्तिश्च सर्वथा या निरन्तरा ।तत्र पङ्क्तिः सान्तराला राजिर्हीनान्तरालका ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 135
वीथिर्माला च विञ्जोलिर्धोरण्यावलि-वीचयः ।[19b]द्वयोः श्रेणिः पङ्क्ति-तति * * रेखालि-राजयः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.313 · p. 91
ग्रामता गजतेल्यादिः स्वयं ज्ञेया धिया बुधैः ।श्रेणी रेखा तती राजी पङ्क्तिर्मलावलिः पुनः ॥ ३१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्म (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.5 · p. 57
आली पाल्यावली श्रेणिः वीथिः स्याद्वीथिकापि च ।राजी राजिस्तथा रेखा लेखा निच्छिद्रपंक्तिषु ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.30 · p. 251
पङ्कौ वीथी वीथिरालिरावलिरावली मता ।राजि-राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता ॥ ३० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable); pāda 3, syllable 5 रे (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1000 · p. 125
द्वित्र्यङ्गुलायता नाभीवङ्क्षणोरुककुन्दरे ।कृता नखक्षती रेखा स्यात्तु तत्रैव सा यदि ॥ १००० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.24 · p. 138
लिपिस्त्वालेख्यलेखास्याद्रेखा तु स्यादकृत्रिमा ।वर्णांतरस्य सर्पादौ लाजिर्लेखा तु कृत्रिमा ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.88 · p. 17
रेखा तु कृत्रिमे मार्गे हस्तपादतलादिषु ।निरन्तरालपङ्क्तौ च वदन्ति विदितागमाः ॥ ८८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.32 · p. 222
रेटिर्वह्नेश्च रटितं वाणी चासंयतोत्कटा ।रेखायामावलौ रेखा लङ्का पूर्भेदशाखयोः ॥ ३२ ॥
अनुष्टुप्
meaningsआवलि

रेखा as a meaning in nānārtha verses

  • धरणिकोश चीरचीरं च व्रतिनां वस्त्रं चीरमापीडरेखयोः । क्रूरं भयंकरं ज्ञेयं क्रूरौ कठिननिर्दयौ ॥ Dharaṇikośa 26.2.12
  • कोषकल्पतरु राजिकाअम्लानके स्यादपि यूथिका स्त्रियां केदाररेखासुरिकासु राजिका । द्वारस्य पिण्ड्यामपि दूतिकायां संग्रामभूमौ गदिता च रुण्डिका ॥ ९ ॥ Koṣakalpataru 6.1.9
  • कोषकल्पतरु राजिवक्त्रानताङ्गे त्रिषु कुब्जमाहु- र्वृक्षप्रभेदे निगदन्ति पुंसि । आजिः समोर्वीक्षणसंगरेषु राजिस्तु रेखाततिवाचिका स्त्री । लाजास्तु भृष्टेष्वपि शा[268a]लिषु स्युः पुंभूम्नि चार्द्रेष्वपि तन्दुलेषु ॥ २६ ॥ Koṣakalpataru 6.7.26
  • शब्दरत्नावली अङ्कअर्क्कः स्फटिकसूर्यार्कपर्णतार्म्रेन्द्रसूरिषु । अङ्कः परिच्छेदे रेखाचित्राजिभूषणेष्वपि ॥ Śabdaratnāvalī 7.1.2
  • शब्दरत्नावली ऊर्मिऊर्भिर्द्वयोस्तरङ्गे स्याद्भङ्गे वेगप्रकाशयोः । वस्त्रसङ्को च रेखायां पीडावेदनयोरपि ॥ Śabdaratnāvalī 7.25.3
  • शब्दरत्नावली चीरकुम्भकारोपकरणे क्लीबं ना चक्रवाकके । चारो गतौ पियालद्रुबन्धापसर्पणेषु च ॥ चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च । मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् ॥ आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः । चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥ Śabdaratnāvalī 7.27.11
  • शब्दरत्नावली होराहिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके । हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः ॥ होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः । Śabdaratnāvalī 7.27.51
  • तन्त्राभिधान पदक्षपार्श्वश्च सेनानीर्मरीचिः पवनः शनिः । उड्डीशं जयिनी कुम्भोऽलसो रेखाः च मोहकः ॥ १२३ ॥ Tantrābhidhāna 2.38.123
  • त्रिकाण्डशेष ऊर्मिउमा दुर्गाऽतसी चाऽथ पीडायां वीचिवेगयोः । वस्त्रसूक्ष्मे च रेखायां चोर्म्मः स्त्रीपुंसयोर्मतः ॥ २९३ ॥ Trikāṇḍaśeṣa 3.3.293