बर्ह
barhaक्ली · neut.In 15 kośas: 29 synonym verses, 6 as a nānārtha head word, 12 as a meaning of another word.
पत्त्रं पलाशं छदनं बर्हं पर्णं छदं दलम् ।
अनुष्टुप्
genderक्लीneut.
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
अनुष्टुप्
genderक्लीneut.
ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
छदस्तु छदनं पत्रं पलाशं छदनादलम् ।पर्णं बर्हं च पत्रं च कोशिका मुकुलोऽपि च ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दस्य केका बर्हस्तु प्रचलापकलापकौ ।अलिर्द्विरेफो लम्बोभसवः पुष्पलोलुपः ॥ ३०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रे (syllables merged)
genderपुंmasc.
स्यादथच्छदनं छादमस्त्रियां बर्हमित्यथ ।चमरिर्मञ्जरीवाना मञ्जी मञ्जिश्च मञ्जरिः ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् ।शिखण्डी च शिखण्डो ना नेत्रं षण् चन्द्रिका स्त्रियाम् ॥ १०६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बर्होछदे बर्हिरग्नौ ब्रीहिभेदे तु हायनः ।मस्तुः सक्तौ वर्हिवव्रे स्यादच्छः स्फटिकेऽपि च ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
शुकपुष्पं शुकं बर्हं बर्हिचूडं च पुष्पकम् ।विकीर्णकः कीर्णरोम धौतेयं कुक्कुरं च तत् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
कलापः प्रचलाकश्च पिच्छं बर्हस्तु न स्त्रियाम् ।शिखा चूडा पक्षिभेदाः कोकवञ्जुलकादयः ॥ १३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बर्हः पुमान्परीवारः सुविदत्रं कुटुम्बकम् ।पुत्रः सुतो[78a] दारकः स्यान्नन्दन्तो नन्दनोऽङ्गजः ॥ ६७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
केदारे हि बर्हिरुक्तो हुताशेबर्होऽपर्णपिच्छयोः कोणके निः ।मित्रः सूर्ये रत्नभेदे च नीलोमस्तुः सक्तुर्निर्मलग्राब्णि चाच्छः ॥ ११ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 1, syllable 4 हि (wrong syllable); pāda 2, syllable 4 र्ण (wrong syllable)
genderपुंmasc.
बर्हिर्दर्भेऽथ तमो राहौ वीर्ये सहो धनुश्चापे ।स्नेहो गेहो लोहो *हो बर्हो गृहं पटहः ॥ ७४ ॥
metre not recognised
genderपुंक्लीm. n.
एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः ।भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् ।विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
काष्ठं तु दलिकं दारु मञ्जरिर्वल्लरिः समे ।पर्णं बर्हं पलाशं च दलं पत्रं छदं पुनः ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
नीलकण्ठः शिखी बर्ही शुक्लापाङ्गोऽस्य वाक्पुनः ।केका बर्हं तु पिच्छे स्यात्प्रचलाककलापकौ ॥ २२२ ॥
अनुष्टुप्
genderक्लीneut.
बर्हध्वनिः पर्णपिच्छभिन्नार्थे नरलिङ्गगः ।वप्रेऽहिः पुंसि तद्भिन्नवाच्ये भेदोऽपि वक्ष्यते ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
वीतंसमासं चमसांसकांसाःकर्पासमाकाशमथोपवासः ।बुसेत्थुसेचिक्कसगेहचाटुतनूरुहं देहगृहेऽथ बर्हः ॥ १६३ ॥
उपजातिः
genderपुंक्लीm. n.
मकरन्दः पुष्परसः परागं पुष्पजं रजः ।पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderक्लीneut.
genderक्लीneut.
पत्रं पात्रं दलं पर्णं पलाशञ्च च्छदः पुमान् ।च्छादनं च्छदनं बर्हं बर्हणञ्चापि पत्रकम् ॥
अनुष्टुप्
genderक्लीneut.
ग्रन्थिपर्णं शुकं पुष्पं वर्हिःकुक्कुरं कुक्कुरे ।शुकबर्हञ्च बर्हञ्च स्थौणेयं बर्हिपुष्पकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रं (wrong syllable)
genderक्लीneut.
शिखायान्तु शिखा चूडा मयूरस्य निगद्यते ।शिखण्डोऽस्त्री पिच्छबर्हे शिखिपुच्छशिखण्डके ॥
अनुष्टुप्
genderपुंक्लीm. n.
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderक्लीneut.
पिच्छबर्हे कलापश्च प्रचलाकः शिखण्डकः ।शिखाचूडे समे स्यातां समौ भासशकुन्तकौ ॥ ७८९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दोऽस्य केका बर्हस्तु प्रचलाककलापकौ ।शिखण्डः पिञ्छमप्यस्य मेचको बर्हचन्द्रकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
पर्णं बर्हं पतत्रं च त्रयी शुङ्गास्य कोशिका ।पल्लवोऽस्त्री किसलयं किसलोऽपि नवे दले ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
वृक्षपत्रे केकिपिञ्छेऽप्यथ बीजं फलास्थनि ।अन्ने रेतस्यपत्ये च हेतावङ्कुरकारणे ॥ ४४ ॥
अनुष्टुप्
doubtful
बर्ह as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कलापकलापो भूषणे बर्हे तूणीरे संहतावपि । Amarakośa 3.3.244
- धरणिकोश कलापशष्पं बालतृणं प्रोक्तं शष्पं स्यात्प्रतिभाक्षयः । कलापः संहतौ बर्हे काञ्चितूणीरयोरपि ॥ Dharaṇikośa 20.2.5
- कल्पद्रुकोशः कुशकंसोऽपुंसि कुशो बर्हौ बालो ह्रीवेरकेशयोः । द्वापरः संशये छेदे पिप्पलो विटपोऽतरोः ॥ १३६ ॥ Kalpadrukośa 3.5.136
- कोषकल्पतरु पिच्छस्तम्बे कलापेऽपि च हारभेदे पुच्छस्तु पश्चाद्भुवि लूम्नि न स्त्री । म्लेच्छोऽपभाषायवनादिषु स्यात् पिच्छं तु बर्हे वनिता तु मण्डे ॥ १८ ॥ Koṣakalpataru 6.6.18
- कोषकल्पतरु शिखण्डउक्तश्चूडाबर्हयोर्ना शिखण्डः कोदण्डोऽस्त्री भ्रूलतायां [च] देशे । चापेऽथ स्यादस्त्रियां शाखिनः स्या- न्मध्ये मूलस्क[277a]न्धयोश्च प्रकाण्डः ॥ ८५ ॥ Koṣakalpataru 6.12.85
- कोषकल्पतरु पटलपिटकतिलकदृग्रुग्बर्हपर्याय ओघे पुनरिह न नरेऽथ च्छागलश्छाग आद्ये । युगमुगसितवस्त्रे स्त्री भवेद्वृद्धदारौ शकृति तु शमलं स्यादंहसि प्राहुरेतत् ॥ ४४० ॥ Koṣakalpataru 6.28.440
- शब्दरत्नावली पिछस्त्रियां पुंसि तु लाङ्गुले न द्वयोस्तूलबर्हयोः । म्लेच्छोऽपभाषणे पापरक्तपामरभेदयोः ॥ Śabdaratnāvalī 7.7.6
- शब्दरत्नावली कलापकच्छपीवल्लकीभेदक्षुद्ररोगडुलीष्वपि । कलापो भूषणे तूणे काञ्च्यां बर्हे च संहतौ ॥ कशिपु क्लीबमेकोक्त्या मिलिते चान्नवाससी । पृथक्कृतेऽन्ने वस्त्रे च कशिपुः पुंसि दृश्यते ॥ Śabdaratnāvalī 7.21.16
- शब्दरत्नाकर कलापकलापो भूषणे काञ्च्यां समूहे बर्हतूणयोः । कमण्डलौ च दाडिम्यां करको भूम्नि तु स्त्रियाम् ॥ २०६२ ॥ Śabdaratnākara 4.1.2062
- त्रिकाण्डशेष शिखण्डशिखण्डौ तु शिखाबर्हौ शुण्डा करिकरः सुरा । Trikāṇḍaśeṣa 3.3.122
- वैजयन्ती पिच्छपात्रं तु भाजने योग्ये वित्ते कूलद्वयान्तरे । पाथींषि स्वर्गचंद्रार्काः पिच्छं बर्हे खगच्छदे ॥ २१ ॥ Vaijayantī 6.3.21
- वैजयन्ती कलापकञ्चुकः सर्पनिर्मोके कवचे वारवाणके । कलापो भूषणे कांच्यां संघाते बर्हतूणयोः ॥ १५ ॥ Vaijayantī 7.1.15