कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्रोडा

kroḍāस्त्री · fem.

In 6 kośas: 6 synonym verses, 1 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.81 · p. 116
वृत्ते वसन्ततिलकं नखमत्र शुक्तौस्यात्कन्यकुब्जमपि देशगतं च पीठम् ।क्रोडा तु वक्षसि भवेदुडु तद्वदर्णास्थूणाथ संयदपि नक्तमथावहित्थम् ॥ ८१ ॥
वसन्ततिलका
genderस्त्रीक्लीf. n.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.969 · p. 148
उरश्च हृदयस्थानं क्रोडा क्रोडं भुजान्तरे ।वत्सो वत्सं तथा वक्षश्चेति जगति मन्यते ॥ ९६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ति (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.284 · p. 101
चूचुकन्तु चुचूकं स्यात् चुचुकञ्च कुचाग्रके ।भुजयोर्मध्यभागे तु क्रोडा क्रोडं भुजान्तरम् ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.19 · p. 282
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.294 · p. 68
क्रोडं क्ली कर्षमाने स्यादुत्सङ्गे द्वे तु सूकरे ।क्रोडा न ना स्यादुरसि स्यात् तु पुंसि शनैश्चरे ॥ २९४ ॥
अनुष्टुप्
meaningsउरस्