कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शिरोधरा

śirodharāस्त्री · fem.

In 10 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.315 · p. 26
कंधरा धमनिर्ग्रीवा शिरोधिश्च शिरोधरा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.516 · p. 59
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
गीतिः
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.28 · p. 464
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 219
कंधरा धमनिर्ग्रीवा शिरोधिः स्त्री शिरोधरा ।अ * वाजे त्वलंकारे ग्रैवं ग्रैवेयमन्यवत् ।कम्बुग्री[87a]वा त्रिरेखा सा स्त्री तु घाटा कृकाटिका ॥ १ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.27 · p. 97
स्त्रियां सयोनिदेहिनां विना विशेषमाह्वयश्चमू शिरोधरा तडित्क्षपालतानिशादिशाः ॥ २७ ॥
पञ्चचामरम्
genderस्त्रीfem.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderस्त्रीfem.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.250 · p. 132
शिरोधरा शिरोधिस्तु कन्धरा ग्रीवया सह ।कम्बुग्रीवा त्रिरेखा स्याद्घाटिका तु कृकाटिका ॥ २५० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.87 · p. 7
शिरोधरा गलो ग्रीवा कण्ठो घाटा कृकाटिका ।अंसः स्कन्धो बाहुशीर्शं कक्षास्पृक् बाहुमूलकम् ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.37 · p. 23
शिरोधिः कंधरा ग्रीवा धमनिश्च शिरोधरा ।उरो हृद्धृदयं वक्षः स्तनान्तरभुजान्तरे ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.942 · p. 144
धमनिः कन्धरा ग्रीवा शिरोधिश्च शिरोधरा ।रेखा त्रयवती सैव कम्बुग्रीवा निगद्यते ॥ ९४२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.84 · p. 180
शिरोधरावसुषिरा शिरोधिर्व्यापलण्डिका ।कंबुग्रीवा त्रिरेखा सा शिरःपीठः कृकाटिका ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.