कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वास्तुक

vāstukaक्ली · neut.

In 15 kośas: 14 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.117 · p. 46
वास्तुकं तु क्षारपत्त्रं पालक्या मधुसूदनी ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.230
कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ।सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता ॥ १५८ ॥गोलोमी शतवीर्या च गण्डाली शकुलाक्षका ।
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.235 · p. 87
चक्रवर्ती सृगालश्च वास्तुके क्षारपत्रकः ।प्रवाले वीरशाकस्य भूषाया कासमर्दकः ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
कलम्बी स्यात् कलम्बूश्च वास्तूकं वास्तुकं समे ।वर्वरी वर्वरा शाके मारिषी मारुषो भवेत् ॥ १४२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.168 · p. 151
सुषवीकारवीक्षुद्रकारवीकन्दतो लता ।अथापरे पत्रशाका वास्तूको वास्तुकोऽस्त्रियाम् ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.90 · p. 471
वास्तुकोपसूर्यकयोः कारकनिःशलाकयोः ।प्रकीर्णकशीर्षकयोः कुहकमधुपर्कयोः ॥ ९० ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.59 · p. 180
प्रबोधिनी चाथ शाकवीरः स्यात्क्षारपत्रकः ।न स्त्री वास्तुक-वास्तूकौ प्रणालश्च प्रसादनः ॥ ५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र शाककाण्डः Nighaṇṭuśeṣa 4.348 · p. 188
वास्तुके तु शाकज्येष्ठः प्रवालः क्षारपत्रकः ।शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः ॥ ३४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.84 · p. 221
वास्तुकं मौक्तिकं जाल[6]कं जापकंकारकं गौरिकं तोटकं खेटकम् ।वेणुकं रूपकं सौप्तिकं माक्षिकंक्लीतकं नाटकं नाणकं चाह्निकम् ॥ ८४ ॥
स्रग्विणी
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2141 · p. 352
वास्तूकं वास्तुकं चैव क्षारपत्रं प्रसिद्धकम् ।क्षीरपत्रं पुनश्चेति नामानि कथयन्ति वै ॥ २१४१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.294 · p. 79
हिलमोचिर्हिलमोची वोची च हिलमोचिका ।शाकश्रेष्ठस्तु वास्तूकं वास्तुकं वस्तुकञ्च तत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.262 · p. 239
जीवन्ती जीवनीया च जीवा स्यात् क्षारपात्रके ।शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् ॥ २६२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.642 · p. 82
सृगालवास्तुके त्वारुर्वास्तुके क्षारपत्रकः ।प्रवालो वीरशाकश्च वास्तिकः शोफकर्शकः ॥ ६४२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.154 · p. 57
सृगालवास्तुके त्वारुर्वास्तुके क्षारपत्रकः ।प्रवालो वीरशाकश्च श्रूषायां कासमर्दकः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.

वास्तुक as a meaning in nānārtha verses

  • कोषकल्पतरु रामप्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमः कुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः । रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत् त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥ Koṣakalpataru 6.25.56
  • कोषकल्पतरु ग्रन्थिलवास्तुके स्रुवतरौ तु पुंगतो ग्रन्थिलोऽपरसमः स पर्वणि । स्यात्करीरधरणीधरे पुमान् वामदाम्भिकगतस्तु वामिलः ॥ २६ ॥ Koṣakalpataru 6.28.26
  • नानार्थार्णवसंक्षेप चण्डिलचण्डिलस्तुः पुमान् शाकविशेषे वास्तुकाह्वये । नापितेऽथ शुनि द्वे स्यात् कोपने तु त्रिषु स्मृतः ॥ ७१४ ॥ Nānārthārṇavasaṃkṣepa 4.714
  • शिवकोष हिलमोचीहिलमोची जलब्रह्म्यां मूलकाशोकवास्तुके । Śivakoṣa 5.3.2
  • शिवकोष शाकश्रेष्ठपूतिकाष्ठं तु सरले देवदारुणि चाद्वयोः । शाकश्रेष्ठाऽनुजीवन्त्यां शाकश्रेष्ठं तु वास्तुके ॥ १४४ ॥ Śivakoṣa 9.3.144