शृगाल
śṛgālaपुं · masc.In 12 kośas: 11 synonym verses, 3 as a nānārtha head word, 6 as a meaning of another word.
genderपुंmasc.doubtful
स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ।शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
गोमायुर्भूरिमायः स्याच्छृगालो जम्बुकः शिवा ।फेरण्डः फेरवः फेरुः क्रोष्टा च मृगधूर्तकः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शृगालो वञ्चकः क्रोष्टा सृगालो मृगधूर्त्तकः ।गोमायुर्भूरिमायः स्यात्फेरवो घोरवासनः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
पिण्डारो महिषीपालः शृगालस्तु सृगालवत् ।क्रोष्टु-जम्बुक-जम्बूक-कृश्व-फेरव-फेरवः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
शृगालो घोरवासी च गोमायुः शिवफेरघौ ।फेरण्डो हूरवः क्रोष्टा जम्बुको मृगधूर्तकः ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
ओतुर्बिडालो मार्जारो दुग्धारिर्मूषकान्तकः ।गोमायुर्वञ्चकः क्रोष्टा शृगालो मृगधूर्त्तकः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
शाखामृगो मर्कटश्च वनौका वानरः कपिः ।शृगालो जम्बुकः क्रोष्टा फेरुगोमायुफेरवः ॥ १६४ ॥
अनुष्टुप्
genderपुंmasc.
शृगालश्च सृगालो वै शकुनावेदनी शिवः ।फेरण्डः फेरवः फेरुः जम्बूकः जम्बुकः पुनः ॥ २३३० ॥
अनुष्टुप्
genderपुंmasc.
सृगालोऽपि शृगालः स्यात् फेरुजम्बुकधूर्तकाः ।जम्बूकः फेरवः क्रोष्टा वञ्चको मृगधूर्तकः ॥
अनुष्टुप्
genderपुंmasc.
भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् ।सृगालोऽपि शिवाऽऽबन्तः खिङ्खिरः खिङ्खीरा स्त्रियाम् ॥ ३२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 ङ्खी (wrong syllable)
genderपुंmasc.
शृगाल as a meaning in nānārtha verses
- धरणिकोश शालावृकवृन्दारकाः श्रेष्ठमनोज्ञनिर्जराः शालावृकाः स्युः श्वशृगालवानराः । नियामकौ नायकपोतवाहौ विनायको बुद्धगणाधिपौ स्मृतौ ॥ Dharaṇikośa 1.1.17
- कोषकल्पतरु शालावृकपिप्पलकं स्तनवृन्ते सीवनसूत्रे समुद्दिष्टम् । शालावृकः शृगाले वान्तादे वानरे कथितः ॥ ४१ ॥ Koṣakalpataru 6.1.41
- कोषकल्पतरु निशाचरउलूककाकोदरयातुधान- शृगालवाची तु निशाचरः स्यात् । स्त्री पांसुलायामथ यूथतः स्याद् भ्रष्टे पृथक्चारिणि चापि नागे ॥ ९२ ॥ Koṣakalpataru 6.27.92
- शब्दरत्नावली जम्बुकजम्बुको वरुरो नीचे शृगाले तर्कभेदके । जतुकाऽजिनपत्रायां क्लीबं स्यात् हिङ्गुयावयोः ॥ Śabdaratnāvalī 7.1.75
- शब्दरत्नावली मृगयुपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
- शब्दरत्नावली निशाचरधृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि । नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले ॥ निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु । वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥ Śabdaratnāvalī 7.27.130