जम्बुक
jambukaपुं · masc.In 17 kośas: 15 synonym verses, 9 as a nānārtha head word, 9 as a meaning of another word.
सृगालो जम्बुकः फेरुः फेरण्डः फेरवः शिवा ॥ १२८९ ॥घोरवाशी भूरिमायो गोमायुर्मृगधूर्तकः ।हूरवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखिः ॥ १२९० ॥
अनुष्टुप्
genderपुंmasc.
स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ।शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
गोमायुर्भूरिमायः स्याच्छृगालो जम्बुकः शिवा ।फेरण्डः फेरवः फेरुः क्रोष्टा च मृगधूर्तकः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
मृगमत्तः स्वभीरुः स्याज्जम्बुको ग्रन्धिलोऽपि च ।वानरो मर्कटः कीशः कुरङ्गो भल्लुकोलिगुः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णशारः कृष्णसारः कुरङ्गः स्यात् कुरङ्गमाः (मः?) ।खड्गः खड्गी च कथितः समौ जम्बूकजम्बुकौ ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
पारूरवः पेरवोऽपि पेरुः फेरुश्च जम्बुकः ।जम्बूको वनमत्तः स्याल्लोपाशो वनकुक्कुरः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
सुखाशोऽपि विलोमः स्याज्जम्बूको जम्बुकोऽपि च ।अप्युद्दामः संवृतः स्याद्दुन्दुभिस्तस्य तु प्रिया ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
पिण्डारो महिषीपालः शृगालस्तु सृगालवत् ।क्रोष्टु-जम्बुक-जम्बूक-कृश्व-फेरव-फेरवः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
शृगालो घोरवासी च गोमायुः शिवफेरघौ ।फेरण्डो हूरवः क्रोष्टा जम्बुको मृगधूर्तकः ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
शाखामृगो मर्कटश्च वनौका वानरः कपिः ।शृगालो जम्बुकः क्रोष्टा फेरुगोमायुफेरवः ॥ १६४ ॥
अनुष्टुप्
genderपुंmasc.
शृगालश्च सृगालो वै शकुनावेदनी शिवः ।फेरण्डः फेरवः फेरुः जम्बूकः जम्बुकः पुनः ॥ २३३० ॥
अनुष्टुप्
genderपुंmasc.
पलाशः कर्वुरो यातुरक्षसी भूतनैऋतौ ।वरुणो जम्बुकः पाशी मेघनादो जलेश्वरः ॥
अनुष्टुप्
genderपुंmasc.
सृगालोऽपि शृगालः स्यात् फेरुजम्बुकधूर्तकाः ।जम्बूकः फेरवः क्रोष्टा वञ्चको मृगधूर्तकः ॥
अनुष्टुप्
genderपुंmasc.
भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् ।सृगालोऽपि शिवाऽऽबन्तः खिङ्खिरः खिङ्खीरा स्त्रियाम् ॥ ३२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 ङ्खी (wrong syllable)
genderपुंmasc.
शिवा स्त्री जम्बुकक्रोष्टुफेरुफेरण्डफेरवाः ।गोमायुर्वञ्चको भीरुभूरिमायशृगलकाः ॥ ६९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ग (wrong syllable)
genderपुंmasc.
सूर्यावर्ते धूर्ते ग्रावविभेदे च जम्बुको गदितः ।भ्रामक आद्ये परवद्भ्रमकर्तर्येष उद्दिष्टः ॥ ५३ ॥
आर्याmetre not read in every line
वरुणेऽपि जम्बुकः स्याद्-ग्रन्थिक आद्ये करी[रः]स्यात् ।गुग्गुलुमाद्रीसून्वो-र्दैवज्ञेऽन्त्ये तु पिप्पलीमूले ॥ ९२ ॥
metre not recognised
meaningsवरुण
मेदके कितवे तु त्रि जङ्गलस्तु त्रि निर्जले ।देशे क्लीबं तु मासेऽथ जम्बुको वरुणे पुमान् ॥ ७७५ ॥
अनुष्टुप्
meaningsवरुण
द्वे सृगालेऽथ जम्बालः पङ्कशैवलयोरयम् ।अस्त्री पुंसि तु जम्बीरः पादपे जम्भलाह्वये ॥ ७७६ ॥
अनुष्टुप्
meaningsसृगाल
doubtful
फेरौ पाशिन्यथाख्यातो जीमूतो गिरिमेघयोः ।जठरं तु कठोरे स्याच्चित्ते कुक्षौ दुमान्तरे ॥ २०७ ॥
अनुष्टुप्
doubtful
जंबुकौ क्रोष्टुवरुणौ जंबालौ पंकशैवलौ ।श्वेतस्तिलोऽपि जामाता जीमूतौ मेघपर्वतौ ॥ २६ ॥
अनुष्टुप्
doubtful
जम्बुक as a meaning in nānārtha verses
- धरणिकोश शृगालशृगालो जम्बुके प्रोक्तो निःसत्त्वे दानवान्तरे । कुलालः कुम्भकारः स्यात्कुलालः कुक्कुभो मतः ॥ Dharaṇikośa 27.2.37
- कोषकल्पतरु कटखादककाकाचीराजशफल- मन्यभिदोः काचकुम्भे च । कटखादको भरे स्या- ज्जम्बुकवान्तादयोस्तद्वत् ॥ ६९ ॥ Koṣakalpataru 6.1.69
- परमानन्दीयनाममाला शिवशिवं भद्रे सुखे नीरे शिवो जम्बुकरुद्रयोः । गुग्गुले कीलके योगे शिवा कात्यायिनी स्मृता ॥ ३५५ ॥ Paramānandīyanāmamālā 5.25.355
- शब्दरत्नावली वञ्चकवञ्चको जम्बुके धूर्ते गृहवभ्रौ खलेऽपि च । व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेष्वपि ॥ व्यलीकानागरे पुंसि वह्लीकं वाह्लिकं तथा । धीरे हिङ्गुनि देशाश्वभेदयोः पुंसि च द्वयम् ॥ Śabdaratnāvalī 7.1.138
- शब्दरत्नावली गोमिन्ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55
- शब्दरत्नावली शृगालशृगालो जम्बुके दैत्ये शृगाली डमरे स्त्रियाम् । शृङ्खलः पुंस्कटीवन्ध्यांशुके च निगडे त्रिषु ॥ Śabdaratnāvalī 7.28.98
- शब्दरत्नावली फेरवअथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् । फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥ माधवो यादवे विष्णौ मधुवैशाखयोरपि । माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥ राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः । राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥ रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे । वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥ Śabdaratnāvalī 7.29.33
- शब्दरत्नाकर वञ्चकवरणो भूरुहे वप्रे वर्तकोऽश्वखुरे खगे । वारणः सेतुगजयोर्वञ्चकौ धूर्तजम्बुकौ ॥ २१६० ॥ Śabdaratnākara 4.1.2160
- त्रिकाण्डशेष वनश्वन्वर्तनी तर्कुपीठेऽपि स्त्रियां वर्त्तनवर्त्मनोः । वनश्वा जम्बुके व्याघ्रे विपन्नोऽहौ विपद्गते ॥ २६३ ॥ Trikāṇḍaśeṣa 3.3.263